This page has been fully proofread once and needs a second look.

द्वितीयस्सर्गः
 
१४५
 
66
 
अदृश्यस्य दृश्यत्वमित्यर्थः । अन्यत्र मे मम अक्षिगतत्वं द्वेष्यत्वम् । गतः प्राप्तः ।
"द्वेष्ये त्वक्षिगतो वध्यः " इत्यमरः । प्राणिनामदृष्टिगोचर एव सन् महामायावीव
विरहिणो बाधसे इति भावः । अत्र पूर्वार्धे पर्यस्तमेरुस्थिर- त्वस्य तत्करणोद्यमरूप-
विरोधस्य मे अरुरिति पदभङ्गेन व्रणकरणोद्यम- रूपार्थपरतया उत्तरार्धेऽदृष्टिगोचर-
स्य दृष्टिगोचरत्वमिति विरोधस्य द्वेष्यत्वरूपार्थपरतया चाभासीकरणाद्विरोधा-
भासालङ्कारः ॥ ६९ ॥
 

 
अनक्षिलक्ष्यो हरिणाश्व बासे वियोगिनो विक्रमिणां न स क्रमः ।

पथि त्वमक्ष्णः पतितो यदि क्षणं तदीक्षणोल्कातरलीकृतो भवेः ॥
 
*
 
*
 
७० ॥
 
अनक्षीति – हे हरिणाश्व मृगवाहन वायो । त्वं भवान् । अनक्षिलक्ष्यः

अदृष्टिगोचरस्सन्। बिवियोगिनः विरहिजनान् । बाधसे बाणैर्विव्ध्यसीत्यर्थः । सः

स्वयं तिरोधाय प्रतिपक्षवेधनरूपोऽर्थः । विक्रमिणां शूराणाम् । न क्रमः क्रमो न
भवति न्यायमार्गो न भवति । प्रतिपक्षिणः प्रतिप्रहारावकाशाभावे युद्धस्याधर्मत्वात् ।
प्रतिप्रहारभीरूणामेव तिरोधानप्रतीक्षणात् भीरुत्वाप-
वादहेतुतया शूरत्वप्रख्याति-
भाजामत्यन्तगर्त्ह्योऽयमित्यर्थः । सर्वथा शूरो न भवसीति भावः । तदेव
विवृणोति । त्वमित्यनुषज्यते । क्षणं क्षणकालम् । अक्ष्णः नयनस्य, अर्थात्
परिपन्थीभूतानां वियोगिनामित्यर्थः । पथि मार्गे । पतितो यदि गतश्चेत् ।
तेषां विरहिणामीक्षणान्येव दृष्टय एव उल्का : अङ्गार खण्डा : परमशत्रुगोचरी-
करणेन खेदक्रोधारुणा इति भावः । ताभिः कलुषीकृतः व्याकुलीकृतः । भवे:
स्या: । क्षणमात्रमपि विरहिदृग्गोचरश्चेत् सद्य एव विरहिजननयनानलज्वाला-
प्रदग्धो भवेरिति भावः। अत्रादृश्यतया वेधनस्य शूराननुरूपत्ववर्णनाद्विषमा-
लङ्कारः । तिरोभूय विरहिव्यथनं प्रति विरहिजनवीक्षणोल्कापातस्य हेतुत्वप्रतीत्या
हेतूत्प्रेक्षा व्यङ्ग्या ॥ ७० ॥
 

 
वियोगिनां मारुत वीक्षणोल्कया विपत्तिशङ्की निजवाहनस्य ते ।

अनक्षिलक्ष्यत्वकथोपदेशने स्मरो बताचार्यक्रमाचचार किम् ॥ ७१ ॥
 
19