This page has been fully proofread once and needs a second look.

रुक्मिणीकल्याणे सव्याख्याने
 
भवसिद्धत्वादिति भावः । नः अस्माकम् । मादृशानां विरहिणामिति भावः ।

भाग्यविपर्ययेण सुकृतव्यत्ययेन । ईदृशदुःखानुभवहेतुभूतपापसञ्चयेनेति भावः
पितामहे पितुः पितरि । वायोरुत्पादके मलयाचले इत्यर्थ: । "पितामहः
पितृपिता " इत्यमरः । प्रीतिमता विश्वासजुषा । हनूमता आञ्जनेयेन । सेतुकृते
सेतुरचनाय । नीरधौ सागरे । न निपातितः न प्रक्षिप्तः । इतीति शेषः । एवं
अवैमि जाने । सागरात् बहुव्यवहितानामि- तोऽपि महतां शैलानां सेतु-
-
करणायोत्पाटनेऽपि सन्निहितस्यास्य सुलभोत्पाट नस्यापि मलयस्यानुत्पाटनं
पितामहप्रीतिकृतमेवेति संभावयामीति भावः । अत्र मलयानुद्धरणं प्रति विरहि-
जनदौर्भाग्यनिमित्तकतया संभाव्यमाना पितामहत्वकृता प्रीतिर्हेतुत्वेन संभावितेति
असिद्धविषया हेतूत्प्रेक्षा ॥ ६८ ॥
 
.
 
१४४
 

 
परास्तमेरुस्थिरतो भवान् पुरा कुतोऽद्य मेऽरुस्स्थिरताकृतोद्यमः ।

समीरणानक्षिगतः सदा नृणां गतोऽधुना मेऽक्षिगतत्वमाः कथम् ॥
 
६९ ॥
 
परास्तेति – हे समीरण वायो । पुरा पूर्वम् । तवादिशेषेण बलाबलविषय-

विवादावसरे । परास्तां निरस्ता मेरो: सुमेरो: स्थिरता दाढयेंर्ढ्ये येन तादृशः ।

मेरोरुत्पाटयिता दूरविक्षेप्ता चेत्यर्थ: । अत्रादिशेषपवनयोः परस्परबलविप्रति
- विप्रति पत्तौ शेषे फणासहस्रेण मेरुशिखरसहस्रमवष्टभ्याखिलेन भोगेन मेरुं संवेष्ट्य
स्थिते शेषोत्सारणकौतुकिना बलवता वातेन मेरावनुच्चालिते शेषोत्सादनम-
शक्यंमन्वानेन एकैकशो मेरुशिखराण्युत्पाठ्य दूरे पर्यस्तानि ततो जगदुत्साद-
शङ्किभिः देवैः उपागम्य शमितः कलह इति कथात्रानु- सन्धेया । तादृशो
भवान् त्वम् । अद्य सांप्रतम् । मे इति पदच्छेदः । मे मम । अरुष: व्रणस्य । "व्रणो-
ऽस्त्रियामीर्ममरु: " इत्यमरः । स्थिरतायां स्थैर्ये अविनाशे असकृत् व्रणोत्पादने
इत्यर्थः । कृतो विहित उद्यमः प्रयत्नो येन तादृशः । विरहिसंपीडनैकसन्नद्धः
इत्यर्थः । अन्यत्र मेरुः स्थिरतायां स्थैर्यकरणे विषये कृतोद्यम: मुख्यप्रवृत्तः
इत्यर्थः । तथा सदा सर्वदा । नृणां मानवानाम् । अनक्षिगत: अक्षिगतः दृष्टिविषयो
न भवतीति तादृशः अदृश्य इत्यर्थ: । तादृशस्सन् । अधुना सांप्रतम् । मे मम ।
अक्षिगतत्वं दृष्टिगोचर- त्वम् । कथं गतः किमिति प्राप्तः । आः महदिदमाश्चर्यम् ।