This page has been fully proofread once and needs a second look.

दानार्हमिति निश्चिते रात्रौ तान्तता धारणोक्त्यैव दिवातान्तत्वाख्यवस्तु-
विकलस्य दिवा तत्प्रदानं कथं संभवेदिति भावः । अन्यत्र अस्मदादिविरहि- जनेभ्यो दिवापि तान्तताप्रदानं पुन: प्रत्यक्षसिद्धमपलपितुमशक्यमिति
भावः। तथा तद्वत् । स्वतः स्वभावात् । हराय शिवाय आर्तिं पीडां ददातीति हरार्तिदः स न भवतीत्यहरार्तिदः । परमेश्वरव्यथने परं असमर्थ इत्यर्थः । अन्यत्र अह्नि दिवसे आर्तिं ददातीति तादृशस्सन् । असौ निशासु च रात्रिष्वपि । नः अस्मभ्यम् । नितरां अतिशयितामित्यर्थः । आर्तिं पीडाम्। । कथं ददाति । दिवसे आर्तिप्रदातृत्वप्रसिद्धे रात्रावार्तिप्रदातृत्वाभावे निश्चिते तस्य रात्रावार्तिप्रदानं विरुद्धमित्यर्थः । दिवारात्र्योरार्तिवैषम्येण सन्ततं पीडयसीति भावः । तेन रात्रिमात्रार्तिकारिणश्चन्द्रादप्यतिक्रूरत्वं मदनस्योक्तं भवति । अत्र रात्रितान्तत्ववतो दिवा तद्वितरणरूपविरोधस्य तीक्ष्णाग्र- त्वार्थेन अह्नि पीडाप्रदस्य रात्रौ तत्प्रदानविरोधस्य शिवशक्तिप्रदानार्थेन चाभासीकरणात् विरोधाभासालङ्कारः ॥ ६५ ॥
 
अथ विरहिजनव्यथने मलयपवनस्य प्राधान्यमुद्भाव्य तन्निन्दामवतारयति-
 
[^1]स्मरोऽयमास्तामयमेव केवलं मया विनिन्द्यो [^2]मरुदेव केवलम् ।
निदाघतस्तत्र निलीनतां गते भवत्यसौ भङ्गुरविक्रमो न किम् ॥६६॥
 
स्मर इति —अयं एवमस्माभिरुपालभ्यमान इत्यर्थः । स्मर: मदनः ।आस्तां
तिष्ठतु । प्राधान्येन न निन्दनीय: किन्तु किञ्चिदुपेक्ष्य एवेत्यर्थः । उग्रं क्रूरं
विरहिजनमरणान्तव्यथासंपादनं कर्म व्यापारो यस्य तादृशः । अयं मरुदेव
मलयपवन एव । केवलं अत्यन्तं प्राधान्येन वा । यद्वा अयं मरुदेव केवलं
अयं पवन एक एव । मया विनिन्द्यः दूष्यः । अत्र हेतुमाह - तंत्र सांप्रतं निन्द्यतया विद्वेषि मलयपवने । निदाघतः ग्रीष्मात् । तात्कालिकतापौत्क- ट्यादित्यर्थः । निलीनतां अप्रकाशताम् । न तु सर्वात्मना प्रणष्टताम् । गते प्राप्ते सति । विरहिसन्तापमुख्यसाधनीभूतस्य पवनस्य साहित्याभावादि- त्यर्थः । असौ मदनः । भङ्गुरः
 
 
[^1] G. स्मरोऽयमास्तामिदमौपवाह्यकम्.
[^2] G. मरुदुग्रकर्मा.
 
-