This page has been fully proofread once and needs a second look.

मदान्धवृत्तिर्मधुशीलनाद्भवान्मनो विधत्ते रतिलालसं सदा ।
सुगन्धिधन्वन् सुमनोगणैर्गुणस्तथापि चित्रं तव [^1]लाल्यतेतराम् ॥ ६४॥
 
मदान्धेति — सुगन्धि शोभनगन्धवत् कुसुममित्यर्थः धन्व धनुर्यस्य
तस्य सम्बुद्धिः हे सुगन्धिधन्वन् । "पुष्पधन्वा रतिपतिः " इत्यमरः । हे मदन। भवान् त्वम् । मधुना वसन्तेन सह शीलनात् संसर्गात् । मदेन गर्वेण
सहायसंपत्तिकृतेनेत्यर्थः । अन्धा कृत्याकृत्यविवेकविकलेत्यर्थः, वृत्तिर्व्या- पारो यस्य तादृश: सन्। अन्यत्र मधुनः मद्यस्य शीलनात् परिचयात् पानादित्यर्थः । मदेन मदनीयमद्यसेवनजनितसर्वेन्द्रियपारवश्येन अन्धा वृत्तिर्यस्येत्यर्थः । मनः चित्तम् । सदा सन्ततं कालविवक्षामन्तरेणेत्यर्थः । रत्यां सुरतव्यापारे केलीनां लालसं लोलं तदेकायत्तम् । विधत्ते कुरुषे । भवच्छब्दयोगात् प्रथमपुरुषः । तथापि एवं त्वयि दुशीले सत्यपीत्यर्थः । [लाल्यतेतराम् ] संसृज्यतेतराम् । बाणानां गुणेषु मधुलिहां कुसुमेषु च संश्लेषणावश्यंभावादिति भावः । अन्यत्र तव ते। गुणः मौर्वी मद्यसेवित्वा- दिश्च। सुमनोगणैः पुष्पसंहतिभि: मदनबाणीभूतैरित्यर्थः। अन्यत्र देवसंघै- र्विद्वद्बृन्दैर्वा । लाल्यतेतरां विशेषात् प्रशस्यते । चित्रं दुर्वृत्तस्य गुणः सुमन स्तूयमानो भवतीति महदिदमाश्चर्यमित्यर्थः । अत्र सुमनोभिः मद्यपायिगुणो- पलालनरूपविरोधस्य कुसुमबाणानां मधुकरमौर्वीसन्धानार्थकतया आभा- सीकरणात् श्लेषमूलो विरोधाभासालङ्कारः ॥ ६४ ॥
 
शिलीमुखस्ते निशितान्ततां [^2]दधद्दिवापि दत्ते स्मर तान्ततां कथम् ।
कथं तथासावहरार्तिदस्स्वतो निशासु चार्ति नितरां [^3]ददाति नः ॥
 
शिलीमुख इति – हे स्मर मदन । ते तव । शिलीमुखो बाणः । निशितान्ततां
तीक्ष्णाग्रताम् । अन्यत्र निशि रात्रौ तान्ततां क्लान्तताम् । दधत् बिभ्रत् सन्। दिवापि दिवसेऽपि । ' दिवा स्वर्गेऽह्नि चाव्ययम् " इति शब्दार्णवे । तान्ततां
क्लान्तत्वम् । कथं दत्ते ददाति । यस्मिन् समये यद्वस्तु यस्य वशेऽस्ति तत् तस्य
 
 
 
[^1] G. लभ्यतेतराम् .
[^2] G. दधद्दिवा विधत्ते.
[^3] G. दधाति.
 
I