2023-04-06 02:51:06 by ambuda-bot
This page has not been fully proofread.
द्वितीयस्सर्गः
मदान्धवृत्तिर्मधुशीलनाद्भवान्मनो विधत्ते रतिलालसं सदा ।
सुगन्धिधन्वन् सुमनोगणैर्गुणस्तथापि चित्रं तव 'लालयतेतराम् ॥
१४१
"
मदान्धेति — सुगन्धि शोभनगन्धवत् कुसुममित्यर्थः धन्व धनुर्यस्य
तस्य सम्बुद्धिः हे सुगन्धिधन्वन् । "पुष्पधन्वा रतिपतिः " इत्यमरः । हे मदन ।
भवान् त्वम् । मधुना वसन्तेन सह शीलनात् संसर्गात् । मदेन गर्वेण
सहायसंपत्तिकृतेनेत्यर्थः । अन्धा कृत्याकृत्यविवेक विकलेत्यर्थः, वृत्तिर्व्यापारो
यस्य तादृश: सन्। अन्यत्र मधुनः मद्यस्य शीलनात् परिचयात् पानादित्यर्थः ।
मदेन मदनीयमद्यसेवनजनित सर्वेन्द्रियपारवश्येन अन्धा वृत्तिर्यस्येत्यर्थः । मनः
चित्तम् । सदा सन्ततं कालविवक्षामन्तरेणेयर्थः । रत्यां सुरतव्यापारे केलीनां
लालसं लोलं तदेकायत्तम् । विधत्ते कुरुषे । भवच्छब्दयोगात् प्रथमपुरुषः । तथापि
एवं त्वयि दुशीले सत्यपीत्यर्थः । [लाल्यतेतराम् ] संसृज्यतेतराम् । बाणानां
गुणेषु मधुलिहां कुसुमेषु च संश्लेषणावश्यंभावादिति भावः । अन्यत्र तव ते
गुणः मौर्वी मद्यसेवित्वादिश्च। सुमनोगणैः पुष्पसंहतिभि: मदनबाणीभूतैरित्यर्थः।
अन्यत्र देवसंधैर्विद्वद्घृन्दैर्वा । लालयतेतरां विशेषात् प्रशस्यते । चित्रं दुर्वृत्तस्य
गुणः सुमनस्तूयमानो भवतीति महदिदमाश्चर्यमित्यर्थः । अत्र सुमनोभिः मद्यपायि-
गुणोपलालनरूपविरोधस्य कुसुमबाणानां मधुकरमौर्वीसन्धानार्थकतया आभासी-
करणात् श्लेषमूलो विरोधाभासालङ्कारः ॥ ६४ ॥
।
शिलीमुखस्ते निशितान्ततां दधदिवापि दत्ते स्मर तान्ततां कथम् ।
कथं तथासावहरार्तिदस्स्वतो निशासु चार्ति नितरां ददाति नः ॥
शिलीमुख इति – हे स्मर मदन । ते तव । शिलीमुखो बाणः । निशितान्ततां
तीक्ष्णाग्रताम् । अन्यत्र निशि रात्रौ तान्ततां क्लान्तताम् । दवत् बिभ्रत् सन् ।
दिवापि दिवसेऽपि । 'दिवा स्वर्गेऽह्नि चाव्ययम् " इति शब्दार्णवे । तान्ततां
क्लान्तत्वम् । कथं दत्ते ददाति । यस्मिन् समये यद्वस्तु यस्य वशेऽस्ति तत् तस्य
9 G. दधदिवा विधत्ते.
1 G. लभ्यतेतराम् .
3 G. दधाति.
I