This page has been fully proofread once and needs a second look.

भस्मीकृतोऽसि, न पुनः पराभूतो व्यथितः पलायितो जीवग्राहं गृहीतो वा, इति यत् तत्सदृशादेवेदृशविपदापतनरूपं महदन्तरमजनि तदित्यर्थः । अध्वन्यानां विरहिणां पथिकानां सार्थवाहिनामित्यर्थः । वधेन हिंसया उदितं उत्पन्नम् । फलं प्रयोजनम् । सदृशयोरेव द्वयोरेकस्यैकेनैवं परिभवे कारण विचारे सति "धर्मो जयति नाधर्मः " इति न्यायेन अधर्मस्यैव कारणत्वे निश्चिते परिभवेऽपि महतोऽन्तरस्य सत्त्वेन महता स्वधर्मेण कारणेन भवित व्यमिति निरपराधपथिकव्यथातिशयितस्याधर्मस्याभावेन भवत्कृतः पथिक वध एव तन्निमित्तभूत इति निश्चीयत इति भावः । अत्र हरमदनयोः तुल्यायुध त्वेऽपि हरकृतस्य मदनपराभवस्य कारणजिज्ञासायां मदनकृताध्वन्यवध- रूपाधर्मस्य हेतुत्वसंभावना हेतूत्प्रेक्षा । न च तदेतत्फलमिति फलस्यैकेनैव निर्देशात् अध्वन्यवधं प्रति हरकृतमदनदाहस्य फलत्वसंभावनाफलोत्प्रेक्षैव किं न स्यादिति वाच्यम् । प्रकृताप्रकृतयोः संभवतोः प्रकृतस्यैवोत्प्रेक्षा विषयत्वस्य तथा सिद्धासिद्धयोः प्रतिपन्नपरिकल्प्ययोः परिकल्प्यस्यैवोत्प्रे- क्षाविषयत्वस्य च सर्वालङ्कारिकसमयविषयतया प्रकृतत्वेन परिकल्प्यत्वेन चाध्वन्यवधस्यैव प्रकृते उत्प्रेक्षागोचरत्वमित्यास्ताम् ॥ ६२ ॥
 
शिलीमुखैर्निर्भरसौरभोर्मिलैस्त्वमात्तगन्धामपि पान्थसन्ततिम् ।
प्रसूनबाण प्रसभं नयस्यहो कथं [^1]नु वामोदकथानभिज्ञताम् ॥ ६३ ॥
 
शिलीमुखैरिति – त्वं भवान् । निर्भरैः निरन्तरैः पूर्णैरित्यर्थः । सौरभैः
परिमलै: ऊर्मिलै: तरङ्गितैः अत्यन्तसुरभिलैरित्यर्थः । शिलीमुखैः सायकैः कुसुममयैरित्यर्थः । प्रसभं बलात् सत्वरं च । आत्तगन्धां अभिभूतां प्राप्त- परिमलां च । पान्थसन्ततिं विरहिसमूहं पथिकबृन्दं च । आमोदस्य प्रमोदस्य परिमलस्य च कथायाः वृत्तान्तस्य अनभिज्ञतां अज्ञातृत्वम् । सुख- प्रसक्तिपरिवर्जितत्वं निरन्तरविरहव्यथितत्वमित्यर्थः । अन्यत्र परिमल- प्रसक्तिपरिहीनत्वमित्यर्थः । कथं नु वा किमिति वा । नयसि प्रापयसि । प्राप्तपरिमलानां परिमलकथानभिज्ञताप्रापणं परस्परविरुद्धतया दुर्घटं कथं कृतवानसीति भावः । अहो अत्र भ्रमरद्वारा कुसुमेभ्यः प्राप्तपरिमलानां
मार्गणानां परिमलकथानभिज्ञताप्रापणरूपविरोधस्य बाणैः परिभूतानां विरहिणां वृत्तान्ताभावप्रापणार्थकतया आभासीकरणाद्विरोधाभासालङ्कारः ॥ ६३ ॥
 
[^1] G. न.