2023-04-06 02:51:05 by ambuda-bot
This page has not been fully proofread.
रुक्मिणीकल्याणे सव्याख्याने
भस्मीकृतोऽसि, न पुनः पराभूतो व्यथितः पलायितो जीवग्राहं गृहीतो वा, इति
यत् तत्सदृशादेवेशविपदापतनरूपं महदन्तरमजनि तदित्यर्थः । अध्वन्यानां
विरहिणां पथिकानां सार्थवाहिनामित्यर्थः । वधेन हिंसया उदितं उत्पन्नम् । फलं
प्रयोजनम् । सदृश्योरेव द्वयोरेकस्यैकेनैवं परिभवे कारणविचारे सति "धर्मो जयति
नाधर्मः " इति न्यायेन अधर्मस्यैव कारणत्वे निश्चिते परिभवेऽपि महतोऽन्तरस्य
सत्त्वेन महता स्वधर्मेण कारणेन भवितव्यमिति निरपराधपथिकव्यथातिशयितस्या-
धर्मस्याभावेन भवत्कृतः पथिकवध एव तन्निमित्तभूत इति निश्चीयत इति भावः ।
अत्र हरमदनयोः तुल्यायुधत्वेऽपि हरकृतस्य मदनपराभवस्य कारणजिज्ञासायां
मदनकृताव्वन्यववरूपाधर्मस्य हेतुत्वसंभावना हेतूत्प्रेक्षा । न च तदेतत्फलमिति
फलस्यैकेनैव निर्देशात् अध्वन्यवधं प्रति हरकृतमदनदाहस्य फलत्वसंभावना-
फलोत्प्रेक्षैव किं न स्यादिति वाच्यम् । प्रकृताप्रकृतयोः संभवतोः प्रकृतस्यैवो-
त्प्रेक्षाविषयत्वस्य तथा सिद्धासिद्धयोः प्रतिपन्नपरिकल्प्ययोः परिकल्प्यस्यैवोत्प्रेक्षा-
विषयत्वस्य च सर्वालङ्कारिकसमयविषयतया प्रकृतत्वेन परिकल्प्यत्वेन चाव-
न्यवधस्यैव प्रकृते उत्प्रेक्षागोचरत्वमित्यास्ताम् ॥ ६२ ॥
१४०
शिलीमुखैर्निर्भरसौरभोर्मिलैस्त्वमात्तगन्धामपि पान्थसन्ततिम् ।
प्रसूनबाण प्रसभं नयस्यहो कथं नु वामोदकथानभिज्ञताम् ॥ ६३ ॥
शिलीमुखैरिति – त्वं भवान् । निर्भरैः निरन्तरैः पूर्णैरित्यर्थः । सौरभैः
परिमलै: ऊर्मिलै: तरङ्गितैः अत्यन्तसुरभिलैरित्यर्थः । शिलीमुखैः सायकैः कुसुममयै-
रित्यर्थः । प्रसभं बलात् सत्वरं च । आत्तगन्धां अभिभूतां प्राप्तपरिमलां च । पान्थ-
सन्तति विरहिसमूहं पथिकबृन्दं च । आमोदस्य प्रमोदस्य परिमलस्य च कथायाः
वृत्तान्तस्य अनभिज्ञतां अज्ञातृत्वम् । सुखप्रसक्तिपरिवर्जितत्वं निरन्तर विरहव्यथि-
तत्वमित्यर्थः । अन्यत्र परिमलप्रसक्तिपरिहीनत्वमित्यर्थः । कथं नु वा किमिति वा ।
नयसि प्रापयसि । प्राप्तपरिमलानां परिमलकथानभिज्ञताप्रापणं परस्पर विरुद्धतया
दुर्घटं कथं कृतवानसीति भावः । अहो अत्र भ्रमरद्वारा कुसुमेभ्यः प्राप्त परिमलानां
मार्गणानां परिमलकथानभिज्ञताप्रापणरूप विरोधस्य बाणैः परिभूतानां विरहिणां
वृत्तान्ताभावप्रापणार्थकतया आभासीकरणाद्विरोधाभासालङ्कारः ॥ ६३ ॥
1 G. न.