This page has been fully proofread once and needs a second look.

द्वितीयस्सर्गः
 
१३९
 
मृतैर्दृगूष्माणं निर्वापितवानिति भावः । तर्हीति शेषः । तस्मिन् पक्षे त्रयाणां

जगतां प्रभुनेंर्नेता । जगतामखिलापदपनयनेन रक्षक इत्यर्थः । अर्थात् परमेश्वरः ।
पान्थानां विरहिणां घस्मरं भक्षकं विरहिविहिंसकमित्यर्थः । जगदहितकारितया
जगन्नेत्रा निग्राह्यमिति भावः । भवन्तं त्वाम् । पुनः अनन्तरमपि । पुनरुज्जीवना-
नन्तरमपीत्यर्थः । अधक्ष्यत् दग्धमेवाकरिष्यत् । अद्धा निश्चितम् । जगन्नेतुर्भगवतः
जगदानुकूल्याय जगद्धिंसकस्य सकृद्द- ग्धस्यापि पुनरुज्जीवितस्य तव पुनरपि
पूर्ववदेव दहनं यतो नाकरोदतोऽस्य नेत्राग्निरेव त्वत्सुहृद्भूतेन चन्द्रेण स्वीया-
मृतैर्निर्वापित एवेति निश्चीयत इति भावः । अत्र अद्य यदि हरनेत्राग्निश्शमितो
न स्यात्तदा मदनः पुनरदग्धो न स्यात् दग्ध एव स्याद्यतो न दग्धः ततोऽग्निः
शमित एवेति मदनदाहस्य परिदृश्यमानस्यान्यथानुपपत्त्या तदुपपत्त्यर्थे शिव-
शिरोगतं मनसा विकृतं स्वीयामृतैर्हरनयनोष्णनिर्वापणं परिकीत्यंर्त्यत इत्यर्था-
पत्तिरलङ्कारः । तत्रोपश- मस्य मदनसचिवीभूतचन्द्रामृतसेचनहेतुकतया संभाव-
नाप्युपकरोतीति सङ्करः । परिकरपरिकराङ्कुराभ्यां संसृष्टिः ॥ ६१ ॥
 
"
 

 
द्वयोः समा वां सुमनोवरेषुता [^1]तथा सुपर्वाश्रयधन्वधारिता ।
'

[^2]
तथापि दग्धोऽसि दृशा हरेण यत्तदेतदध्वन्यवधोदितं फलम् ॥६२॥

 
द्वयोरिति —द्वयोः उभयोः अर्थिप्रत्यर्थिभूतयोरित्यर्थः । वां युवयोः
शिवस्य तव चेत्यर्थ: । सुमनोवरेषुता सुमनसां देवानां वरः श्रेष्ठः विष्णुरित्यर्थः ।

"अग्निर्वै देवानामवमो विष्णुः परम : " इति श्रुतेः । स एवेषुर्बाणो यस्य, अन्यत्र
सुमनसां कुसुमानां वराणि श्रेष्ठभूतानि अरविन्दादीनि इषवो यस्य तस्य
भावस्तत्ता ! तथा तद्वत् । सुपर्वणां देवानां आश्रयो मेरुः अन्यत्र शोभन पर्वणां
खण्डसन्धीनां आश्रय: पुण्ड्रेक्षुः स एव धन्वा धनुः धरति बिभर्तीति तादृशः तस्य
भावस्तत्ता । त्रिपुरसंहारावसरे मेरोश्चापत्वस्य हरेर्बाणत्वस्य शिवे, तथा इक्षोः
कोदण्डत्वस्य कुसुमानां बाणत्वस्य च मदने, प्रसिद्ध- त्वादिति भावः । समा तुल्या ।
धनुर्बाणयोरेकरूपत्वमुभयोरिति भावः । तथापि शस्त्रसाम्ये सत्यपीत्यर्थः ।
हरेण शिवेन त्वत्सदृशेनैवेत्यर्थ: । दृशा क्रूरदृष्टिपातमात्रेणेत्यर्थः । ढग्धोऽसि
 

 
 
 
[^1] G.कथा
[^
2] G. अथापि.
 
1 G

 
 
.
कथा.