This page has been fully proofread once and needs a second look.

रुमधुवैरित्वकृतवसन्तक्मिणीकल्रोधस्याणे सव्हेतोर्हेतुत्ववर्णनादसिद्धविषयाख्याने
 
हेतूत्प्रेक्षा । समुदिते
 
मधुवैरित्वकृतवसन्तक्रोधस्याहेतोर्हेतुत्ववर्णनादसिद्धविषया
पद्ये तु एकेनानेकधोल्लेखादुक्तालङ्कारोत्थापितः उल्लेखालङ्कारः ॥ ५९ ॥

 
पुरद्रुहा फालविलोचनानले पुरा भवन्तं मदनेन्धनीकृतम् ।

सुधाभिरुज्जीवयति स्म '[^1]किं न्वदः शिरस्स्थितस्त्वत्सुहृदिन्दुपातकी ॥
 
१३८
 

 
पुरद्रुहेति --हे मदन । पुरा प्राक् । सेनापतिमभिलषद्भिरिन्द्रादिभिर्देवैः

कुमारोत्पत्तये पार्वतीपरमेश्वरसंघटनार्थं प्रोत्साहितेन भवता भगवति परमेश्वरे
बाणगोचरीक्रियमाणे सतीति भावः । पुरगुद्रुहा त्रिपुरारिणा । मन्द- स्मित-
मात्रभस्मीकृतपुरत्रयेणेति भावः । फालविलोचनानले ललाटनेत्रगत- कालानले ।
इन्धनीकृतं दाह्यतां नीतम् । प्रदीपशलभन्यायेन स्वयमेवाभि- निपात्य भस्मी कृतमिति
भावः। भवन्तं त्वाम् । अदः शिरस्स्थितः अमुष्य शिवस्य शीर्षावस्थितः । त्वत्सुहृत्
भवन्मित्रम् । इन्दुरूपः पातकी उक्त- विधया महापापकृत् । सुधाभि: अमृतैः
स्वशरीरसंभृतैरिति भावः । उज्जी- वयति स्म किं नु उदजीवयत् किमु । लट्-
स्मयोगात् भूतार्थता । अमृता- प्लवने मृतस्य भस्मावशेषत्वेऽप्युज्जीवनसंभवादिति
भावः । अन्यथा कालाग्निदग्धस्य कथं पुनरुत्थितिरिति भावः । अत्र हरनय -
नानलदग्धस्य पुनर्दर्शनानुमितेन चन्द्रकृतत्वेनाध्यवसितमुज्जीवनं प्रति तद्गतस्या-
मृतस्य हेतुत्ववर्णनाद्धेतूत्प्रेक्षा । अपुनरुत्थानस्य निश्शेषशत्रुनिषूदासमर्थाभिप्राय-

गर्भस्यादः शिरस्स्थित इति विशेषणस्य सुहृदिति विशेषणस्य च सन्निवेशात्

परिकरपरिकराङ्कुरैः संसृष्टिः ॥ ६० ॥
 

 
निशाकरस्त्वत्सचिवो निजामृतैः संमीलयिष्यद्दृशमूष्मणा न चेत् ।

अधक्ष्यदद्धा त्रिजगत्प्रभुः पुनर्भवन्तमङ्ग स्मर पान्थघस्मरम् ॥ ६१ ॥
 
-
 

 
निशाकर इति – अङ्गेत्यामन्त्रणे हे अङ्ग स्मर । अयं त्वत्सचिवः भवतोऽ-

मात्यः चन्द्र इत्यर्थः । निजामृतैः स्वकीयैः सुधाद्रवै: । दृशं नेत्रम् । अर्थात् शिवस्य
ललाटनयनमित्यर्थः । ऊष्मणा तापेन औष्ण्येन । न संमीलयिष्यत् चेत् अनि-
मीलितं नाकरिष्यद्यदि । प्रशमितोष्णभावन्नातनिष्यद्यदीत्यर्थः । अत एव स्वीया -
 

 
[^
1] G. किं नुतः