2023-04-06 02:51:05 by ambuda-bot
This page has not been fully proofread.
द्वितीयस्सर्गः
१३७
प्राचीनः परिगणनात्, अर्थालङ्कारतया केषांचिद्गणनं तु क्वचित् शब्दस्यैवार्थ-
रूपतया विवक्षायामर्थसाम्यसम्भवानुरोधेनेति चेन्मैवम् । अपह्नवे आरोप्यमाणे
निषेध्यसादृश्यस्य चमत्कृतिनिमित्ततया प्रयोगबाहुल्ये विलक्षणे तद्विवक्षाया
अभावेन क्वचित्सादृश्याभावेऽप्यपह्नवस्य दृष्टत्वात् अत एव "अपह्नुतिर पह्नुय
किञ्चिदन्यार्थसाधनम् " इत्यारोप्यनिषेध्ययोः साम्याविवक्षयैवापह्नवलक्षणमभि-
दधता दण्डिना "न पञ्चेषु: स्मरस्तस्य सहस्रं सन्ति पत्रिण: 1 " इत्युदाहृत -
मित्यलमतिविस्तरेण ॥ ६८ ॥
"
अनङ्ग ते पञ्चशराभिधा मुधा विमुञ्चसे यद्विशिखान् परश्शतम् ।
मधुर्मधुद्वेषिणि मय्युत क्रुधा शरान्नु दत्ते शतशस्तवाधुना ॥ ५९ ॥
अनङ्गेति-- हे अनङ्ग मदन । ते तव । पञ्चशराभिधा पञ्चबाणाख्या ।
मुधा मिथ्या नाघितार्थेत्यर्थः । अत्र हेतुमाह । यत् यस्मात् । परः शतं शताधिकान् ।
विशिखान् वाणान् । विमुञ्चसे विक्षिपसि । त्वद्विक्षिप्ताः शताधिकबाणा: संप्रति
यतो दृश्यन्ते अतो न पञ्चबाण इति व्यवहारः प्रामाणिक इत्यर्थः ॥
ननु सकललोकनिरूढः पञ्चत्राणव्यवहारः कथं मिथ्या स्यादित्यतः
पक्षान्तरमुल्लिखति । उत आहोस्वित् । मधुर्वसन्तः कर्ता । मधुद्वेषिणि मधुनाम-
कासुरद्विषि । वसन्तद्वेषिणीति श्लेषेण लभ्यते । मयि क्रुधा क्रोधेन । नामस म्य-
मात्रसंपन्नस्वद्वेषित्वख्यातिकृतद्वेषेणेत्यर्थः । स्वयमसमर्थोऽपि अनेक शतवाण-
संपादनेन साहाय्यकमारचय्य तव त्वन्मुखेन मद्वेधनायेति भावः । शतशः
अनेकशतसंख्यान् । शरान् बाणान् । दत्ते नु ददाति किमु । अत इदानीं बहवो
बाणा दृश्यन्ते । इतः पूर्व पञ्चबाण एवासीरिति पञ्चबाणत्वप्रवादस्य न सर्वात्मना
मिथ्यात्वं सांप्रतं पुन: वसन्तसमासादितानेकशतशर निकरवत्तया कालविशेष-
विषयतया वा बाध: संकोच इति भावः । अत्र पूर्वार्धे विषयासत्यत्वप्रतिपादकमुधा-
पदेनानन्त्राणेषु पञ्चत्वसंख्यापह्नवस्य यतः परश्शतं विशिखान्विमुञ्चस इति
युक्तिपूर्वकतया हेतुगर्भा कैतवापनुतिः । उत्तरार्धे निरन्तरं शरशतविकिरण-
निमित्तकतया संभावितं वसन्तकर्तृकमदनसंप्रदानकशरशतवितरणं प्रति कृष्णे
1 The printed editions of the Kāvyādarsa read सहस्रं सन्ति पत्रिणाम् ।
2 G. धत्ते.
18