This page has been fully proofread once and needs a second look.

१३६
 
रुक्मिणीकल्याणे सव्याख्याने
 
दर्पकारित्वं चेति भावः । अत्र स्मरकन्दर्पपदयोरुक्तार्थपरत्वकल्पनेन स्वार्थ-
परित्यागात् परिसंख्यालङ्कारः । दृष्टान्तालङ्कारः । " चेत् बिम्बप्रति- बिम्बत्वं
दृष्टान्तस्तदलङ्कृतिः " इति लक्षणात् ॥ १७ ॥
 

 
ध्रुवं विषश्रीकशिलीमुखो भवान् बिभर्ति कंतो विषमायुधाभिधाम् ।

न पञ्चवाबाणीभरणाद्यदेकदा पतन्ति हा हन्त परः शतं शराः ॥ ५८ ॥
 
6"
 

 
ध्रुवमिति – हे कन्तो मदन । "कन्तुःकामकुसूलयो: " इति रत्नमाला ।

भवान् त्वम् । विषस्य गरलस्य श्रीरिव सर्वप्राणिसंमोहकत्वसंपदिव श्रीः येषां ते
विषश्रीकाः तादृशाः शिलीमुखा यस्य तादृशस्सन् । विषतुल्यैरिषुभिः

विरहिजनान् मोहयन् सन्नित्यर्थः । विषमायुधाभिधां विषस्य गरलस्य मा

लक्ष्मीरिव मा येषां तादृशानि आयुधानि बाणा यस्य तादृश इति अभिधां नाम ।
बिभर्ति धत्से । उक्त विधयैव विषमायुध इति लोकैः व्यवहीह्रीयसे इत्यर्थः । ध्रुवं
निश्चितम् । पञ्चानां बाणानां समाहार: पञ्चबाणी तस्याः भरणात् धारणात् । न
पुनरित्यर्थः । न नबिभर्षीत्यर्थः । पञ्चत्वसंख्यया विषमरूपतया तावत्संख्याक
बाणधारणान्निमित्तान्नविषमायुधोऽसीति भावः । अस्मिन्नर्थे हेतुमाह । यद्यस्मा-
त्कारणात् । एकदा समसमय एव । तेन पञ्चानामेव पुनः पुनः प्रत्त्यावृत्या न
पञ्चत्वसंख्यासमर्थनं संभवति [इति] व्यज्यते । परश्शतं शताधिकसंख्याकाः ।
शरा: बाणा: । पतन्ति निपतन्ति । मयीति भावः । हा हन्त अतिकष्टम् ।
तत्संस्मरणमपि दुःखायेति भावः । अत्र मन्मथे विषमायुध इति लोकप्रसिद्धव्यवहारं
प्रति तद्वाबाणगतपञ्चत्व संख्याया निमित्तत्वमपहूनुत्य तद्गतस्य विषतुल्यश्रीमत्त्वस्य
हेतुत्वारोपात् अपह्हूनुतिः । सा च निषेधा [त्] समकालिकशताधिकबाण-
पतनरूपहेतू- पबृंहितः आरोपांशे च विषोपमश्रीकशिलीमुख इति पदार्थसमर्थित

इति सङ्करः ॥
 

 
नन्वपह्नवे निषेध्यारोप्ययोः सादृश्यस्यावश्यकत्वेनेह पञ्चायुधत्वविषसमश्री-
समश्री
कार्यत्वयोः साम्याभावान्नाप्तः । न च विषमायुध इति प्रतिपादकशब्द-
साम्यमस्तीति वाच्यम् । अर्थकृतस्यैव सादृश्यस्येह विवक्षितत्वात् । न च श्लेषे
शब्दमात्रकृतेऽपि साम्येऽर्थालङ्कारता दृष्टेति वाच्यम् । श्लेषस्य शब्दालङ्कारेष्वेव