This page has been fully proofread once and needs a second look.

मुपशाम्य मदनरक्षणं किं नाकरोदिति भावः । अथवा शिरःस्थितः मूर्धन्येव
सम्बद्धः न पुनरस्मदादीनामिव द्विलक्षयोजनान्तरालवर्ती सः तेन तथा
सम्बद्धोपि पार्वतीविरहावस्थायां अस्मत्तोप्यत्यन्तातिशयितां बाधां वा किमिति नोत्पादयेत् । मदनं वा किमिति नोज्जीवयेत् स्वतन्त्रो यदीति भावः। यद्वा शिरःस्थित: शिवेन शिरसोपलालित इत्यर्थः । शिवस्यात्यन्ता- भ्यन्तरीभूत इति व्यज्यते । अतः शिवप्रसादं संपाद्य कुतो मदनं नोज्जीव येदिति भावः । यत एवं नाकरोदतोयमस्वतन्त्रोऽशक्तश्च यथोक्तस्वामि- कर्म[कुर्व]न्नोपालंभार्ह इति समर्थितं भवति । अत्र कुत इति प्रहर्तुरिति वाक्यद्वये स्मरचन्द्रयोः प्रहर्तृपरिघयोश्च सापराधत्वनिरपराधत्वयोः सामान्ययोर्भिन्नपदप्रतिपादितत्वेन प्रतिवस्तूपमालङ्कारः । तस्य चार्थस्य हरस्येति वाक्यार्थेन समर्थनात् काव्यलिङ्गम् ॥ ५६ ॥
अथ नवभिः मन्मथोपालम्भमाह -
 
स्मरोऽसि कन्दर्प [^1]वियोगिघस्मरो न [^2]भीमसेनोऽजनि भीमनामकः।
वियोगिनां दर्पहरश्च दर्पकोऽस्यमा न दर्शः किमदर्शनाद्विधोः ॥५७॥
 
स्मर इति – हे कन्दर्प मदन त्वमिति शेषः । वियोगिनां विरहिणां घस्मरः
भक्षक: हिंसक इत्यर्थः । "भक्षको घस्मरोऽद्मर " इत्यमरः । तादृशस्सन् । स्मर: स्मर इति व्यवहर्तव्यः । असि भवसि । "नामैकदेशे नामग्रहणम् " इति व्यवह्रियसे । न पुनः स्मर इत्येव ते नामेति भावः । अमुमर्थे दृष्टान्तेन साधयति- भीमसेनः भीमसेननामा पाण्डव: । द्वितीय: भीमसेननामक: भीमशब्दप्रतिपाद्यः । नाजनि नाजनिष्ट। काकुः नाजनिष्ट किमजन्येवेत्यर्थः। तथा वियोगिनां विरहिणाम् । दर्पहरः दर्पनाशकस्सन् । दर्पकश्च दर्पक शब्दप्रतिपाद्यश्च । असि भवसि । न पुनर्दर्पयतीत्यर्थे दर्पक इति ते नामेति भावः । अमुमर्थे दृष्टान्तेन साधयति — अमा अमावास्या । विधोश्चन्द्रस्य । अदर्शनात् सूर्यमण्डलान्तर्गतत्वेनापरिज्ञानादेवेत्यर्थः । दर्शः दर्शप्रतिपाद्यः । नाजनि काका नाजनि किं नाजनिष्ट किमित्यर्थः । अजन्येवेति । न
पुनर्दृश्यतेस्मिन् समये चन्द्र इति व्युत्पत्त्या वस्तुतश्चन्द्रस्यैवादर्शनादिति भावः । स्मर इति दर्पक इति च नाममात्रमेव तव न पुनस्तदर्थानुगुण्येन स्मरणीयत्वं
 
[^1] वियुक्त
 
[^2] भीमसेनः किमु.