This page has been fully proofread once and needs a second look.

द्वितीयस्सर्गः
 
१३५
 
मुपशाम्य मदनरक्षणं किं नाकरोदिति भावः । अथवा शिरःस्थितः मूर्धन्येव

सम्बद्धः न पुनरस्मदादीनामिव द्विलक्षयोजनान्तरालवर्ती सः तेन तथा

सम्बद्धोपि पार्वतीविरहावस्थायां अस्मत्तोप्यत्यन्तातिशयितां बाधां वा किमिति
नोत्पादयेत् । मदनं वा किमिति नोज्जीवयेत् स्वतन्त्रो यदीति भावः
यद्वा शिरःस्थित: शिवेन शिरसोपलालित इत्यर्थः । शिवस्यात्यन्ता- भ्यन्तरीभूत इति
व्यज्यते । अतः शिवप्रसादं संपाद्य कुतो मदनं नोज्जीव येदिति भावः । यत एवं
नाकरोदतोयमस्वतन्त्रोऽशक्तश्च यथोक्तस्वामि- कर्म[कुर्व]
न्नोपालंभार्ह इति समर्थितं
भवति । अत्र कुत इति प्रहर्तुरिति वाक्यद्वये स्मरचन्द्रयोः प्रहर्तृपरिघयोश्च
सापराधत्वनिरपराधत्वयोः सामान्ययोर्भिन्नपदप्रतिपादितत्वेन प्रतिवस्तूपमा
लङ्कारः । तस्य चार्थस्य हरस्येति वाक्यार्थेन समर्थनात् काव्यलिङ्गम् ॥ ५६ ॥

अथ नवभिः मन्मथोपालम्भमाह -
 

 
स्मरोऽसि कन्दर्प [^1]वियोगिस्मरो न [^2]भीमसेनोऽजनि भीमनामकः

वियोगिनां दर्पहरश्च दर्पकोऽस्यमा न दर्शः किमदर्शनाद्विधोः ॥५७॥
 

 
स्मर इति – हे कन्दर्प मदन त्वमिति शेषः । वियोगिनां विरहिणां स्मरः

भक्षक: हिंसक इत्यर्थः । "भक्षको स्मरोऽद्मर " इत्यमरः । तादृशस्सन् । स्मर:
स्मर इति व्यवहर्तव्यः । असि भवसि । "नामैकदेशे नामग्रहणम् " इति व्यवह्रियसे ।
न पुनः स्मर इत्येव ते नामेति भावः । अमुमर्थे दृष्टान्तेन साधयति- भीमसेनः
भीमसेननामा पाण्डव: । द्वितीय: भीमसेननामक: भीमशब्दप्रतिपाद्यः । नाजनि
नाजनिष्ट। काकुः नाजनिष्ट किमजन्येवेत्यर्थः । तथा वियोगिनां विरहिणाम् । दर्पहरः
दर्पनाशकस्सन् । दर्पकश्च दर्पक शब्दप्रतिपाद्यश्च । असि भवसि । न पुनर्दर्पयतीत्यर्थे
दर्पक इति ते नामेति भावः । अमुमर्थे दृष्टान्तेन साधयति — अमा अमावास्या ।
विधोश्चन्द्रस्य । अदर्शनात् सूर्यमण्डलान्तर्गतत्वेनापरिज्ञानादेवेत्यर्थः । दर्शः
दर्शप्रतिपाद्यः । नाजनि काका नाजनि किं नाजनिष्ट किमित्यर्थः । अजन्येवेति । न

पुनर्दृश्यतेस्मिन् समये चन्द्र इति व्युत्पत्त्या वस्तुतश्चन्द्रस्यैवा दर्शनादिति भावः ।
स्मर इति दर्पक इति च नाममात्रमेव तव न पुनस्तदर्थानुगुण्येन स्मरणीयत्वं
 

 
[^
1] वियुक्त,
 

 
[^
2
 
9
] भीमसेनः किमु.