This page has been fully proofread once and needs a second look.

रुक्मिणीकल्याणे सव्याख्याने
 
पञ्चविधानामप्याश्रयभूते। त्वयि भवति । कृपा अनुकंपा । कुतः कस्मात् । उदेति
उद्भवति। नोदेत्येवेत्यर्थः । बतेति कष्टे । अल्पपापिनो निर्वृणत्व- मनपायि एवं ।
सर्वपातकवति किमु वक्तव्यमिति महत्कष्टमिति भावः । महापातकसंघातेन कृपा-
नुदयस्य कैमुत्येन सिद्ध्या अर्थापत्तिरलंकार: "कै- मुत्येनार्थसंसिद्धिः काव्यार्था-
पत्तिरिष्यते " इति लक्षणात ॥ ५५ ॥
 

अथ नवभिः पद्यै: मदनोपालंभमुपवर्णयिष्यन्नादौ प्रसङ्गात्तदवतारयति-
१३४
 

 
कुतः स्मरप्रेष्यमुपालभे विघुंधुं प्रहर्तुरागः परिघः करोतु किम् ।

हरस्य तस्मिन्नयनानले हुते शिरस्स्थितोऽप्येष करोति किं पुरा ॥५६॥
 

 
कुत इति – स्मरस्य मदनस्य प्रेष्यमाज्ञाविधेयं भृत्यमित्यर्थः । तेन तत्कृता-

यामपि हिंसायां स्वतः तस्यानपराधित्वं व्यज्यते । विधुं चन्द्रम् । कुतः
कस्माद्धेतोः ।
उपालभे निन्दामि । उपपूर्वादाङ्पूर्वाच्च लभतेर्लट् । चन्द्र-निन्दायां न किञ्चित्
कारणम् । तस्य मन्मथप्रेष्यत्यैवास्मद्द्रोहकारित्वं न पुनः स्वत एवेति भावः ।
अमुमर्थे अन्यत्र दृष्टान्तयति । आग: अपराध: । तत्प्रयुक्तशिक्षापर्यन्तार्थः
दुष्कर्मकारिणि राजादिना प्रयुक्तो दण्ड इत्यर्थः । स तु प्रहर्तुः प्रहारकर्तुः । प्रहार-
रूपापकारं प्रति साक्षान्मुख्यकारणीभूत एव प्रयोज्यो न तत्साधनीभूतदण्डा-
दाविति भावः । परिधःघः परिवाघायुधः । पुरुष प्रयोज्य: स्वयमस्वतन्त्रः । किं करोतु
किं विधत्ताम् । प्रहारनिर्वर्तकं कर्म किकिं कुर्यादित्यर्थः । परिघाद्यभावेऽपि प्रहरणान्त-
रेण प्रहर्तुं शक्यत्वादिति भावः । यद्वा प्रहारकर्तु: आग इति द्वितीयान्तं
प्रहर्तृकृतमपराधे विषये प्रयुज्यमानप्रहारविरचनरूपं दोषं परिघः किं कुर्यात्
कथं समाधत्ताम् । अतः परिघो न दण्ड्यस्तद्वदयमपीन्दुर्न निन्द्य इति भावः ॥
 

 
ननु भवदुक्तवैपरीत्येन चन्द्र एव मुख्य: प्रहर्ता मदनः पुनः सकृत्प्रेष्य

इत्येव किं न स्यादित्याक्षेपं स्वतः चन्द्रस्यासमर्थत्वं कार्यमुखेन दर्शयति ।

तस्मिन् मदने । हरस्य शिवस्य । नयनानले नेत्राग्नौ । हुते दग्धे सतीत्यर्थः । एषः
चन्द्रः । शिरस्स्थितोऽपि अर्थात् शिवस्येत्यर्थः । मदनदहनसाधन- नयनसविधवर्ती
सन्नपीति भावः । किं मदनोज्जीवनसाधनं कीदृशं कर्म करोति पुरा किमकरोत् ।
" यावत्पुरा निपातयोर्लट् " इति पुराशब्द- योगाल्लृट् । तेन स्वीयामृतेन नयनानल-
"