This page has been fully proofread once and needs a second look.

भावनमपि नापेक्षितमिति गम्यते । तथा तद्वदेव सम्यक् उद्यन्तं विभावानु-
भावसात्विकादिसमुल्लसितं गुरोराङ्गिरसस्य दारेषु कलत्रे तारायां विषये रागं रतिरूपं स्थायीभावं परिपूर्णसंभोगशृंगारं भजतीति तादृशः । अप्यसी- त्यनुषज्यते गुरुतल्पगमनमहापातकी किं न भवसीत्यर्थः । तथा निशासु रात्रिषु । अयुक्तानां विरहिणां द्विजानां पक्षिणां चक्रवाकानामिति भावः । "दन्तविप्राण्डजा द्विजा: " इत्यमरः । आवले: समूहस्य । हन्ता संहर्ता । रात्रिविरहार्तचक्रवाकसन्तापकृदिति भावः । अन्यत्र अयुतानां दशसहस्र संख्याकानां द्विजानां ब्राह्मणानां आवले: समूहस्य । हन्ता संहर्ता । असि भवसि । अपीत्यप्यनुषज्यते । उक्तोऽर्थः । अनेकसहस्रब्रह्महत्यामहापात- कीत्यर्थः । तथा चिराय कालक्रमेण । अस्तमयावसरे वा सायंसमय इत्यर्थ:। हैमीं हेमसम्बन्धिनीं सुवर्णसदृशीमिति यावत् । श्रियं शोभाम् । आहरसि अपहरसि सुवर्णशोभां वहसीत्यर्थ:। अन्यत्र चिंराय बहोःकालात् । हैमीं हेममयीम् । श्रियं संपदम् । आहरसि अपहरसि मुष्णासीत्यर्थः । अतः स्वर्णस्तेयाख्यमहापातकीति भावः ॥ ५४ ॥
 
सदैव सख्यं मधुपावलीगुणस्पृशा विधत्से स्पृहयाङ्गजन्मना ।
अहो महापातकपञ्चकाञ्चिते कुतो बतोदेति [^1]कृपा तथा त्वयि ॥५५॥
 
सदेति -- मधुपानां भृङ्गाणां "मधुलिण्मधुपालिनः" इत्यमरः । आवलीमेव
पङ्क्तिमेव गुणं मौर्वीं स्पृशतीति तादृशेन । भृङ्गाणां मदनधनुःशिञ्जिनी- त्वेन तत्संस्पर्शावश्यंभाव इति भावः । अन्यत्र मधुपानां मद्यपायिनां आवले: गुणं शीलं सदा मद्यसेवनरूपं स्पृशति अवलम्बत इति तादृशेन । सदा मधुपायिनेत्यर्थः । अङ्गजन्मना मदनेन। अन्यत्र पुत्रेण । यद्वा अङ्गेल्या- मन्त्रणे । जन्मना उत्पत्त्या जननादारभ्येति यावत् । मधुपावलीगुणस्पृशा तादृशेन जनेनेत्यर्थः । सदा अनवरतम् । स्पृहया लिप्सया । न पुनः कदाचित् नापि प्रमादादित्यर्थः । सख्यं सौहृदं संसर्गे च । विधत्से विशेषतः कुरुषे । चन्द्रमदनसौहार्दस्य प्रसिद्धत्वादिति भावः । बुद्धिकृतत्वचिरपरि- शीलितत्वोक्त्या प्रायश्चित्तानपनोद्यत्वं व्यज्यते । अतः एवं एकैकजातीयानां पञ्चानां मेलनादित्यर्थः । महापातकपञ्चकाञ्चिते पूर्वोक्तविधया
 
[^1] कृपाऽथवा.