This page has been fully proofread once and needs a second look.

द्वितीय सर्गः
 
१३३
 
भावनमपि नापेक्षितमिति गम्यते । तथा तद्वदेव सम्यक् उद्यन्तं विभावानु-

भावसात्विकादिसमुल्लसितं गुरोराङ्गिरसस्य दारेषु कलत्रे तारायां विषये रागं
रतिरूपं स्थायीभावं परिपूर्णसंभोगशृंगारं भजतीति तादृशः । अप्यसी- त्यनुषज्यते
गुरुतल्पगमनमहापातकी किं न भवसीत्यर्थः । तथा निशासु रात्रिषु । अयुक्तानां
विरहिणां द्विजानां पक्षिणां चक्रवाकानामिति भावः । " दन्तविप्राण्डजा द्विजा: "
इत्यमरः । आवले: समूहस्य । हन्ता संहर्ता । रात्रिविरहार्तचक्रवाकसन्तापकृदिति
भावः । अन्यत्र अयुतानां दशसहस्र संख्याकानां द्विजानां ब्राह्मणानां आवले:
समूहस्य । हन्ता संहर्ता । असि भवसि । अपीत्यप्यनुषज्यते । उक्तोऽर्थः ।
अनेक सहस्रब्रह्महत्यामहापात- कीत्यर्थः । तथा चिराय कालक्रमेण । अस्तमयावसरे
वा सायंसमय इत्यर्थ: । हैमीं हेमसम्बन्धिनीं सुवर्णसदृशीमिति यावत् । श्रियं
शोभाम् । आहरसि अपहरसि सुवर्णशोभां वहसीत्यर्थ: । अन्यत्र चिंराय बहोः
कालात् । हैमीं हेममयीम् । श्रियं संपदम् । आहरसि अपहरसि मुष्णासीत्यर्थः ।
अतः स्वर्णस्तेयाख्यमहापातकीति भावः ॥ ५४ ॥
 
1
 

 
सदैव सख्यं मधुपावलीगुणस्पृशा विधत्से स्पृहयाङ्गजन्मना ।

अहो महापातकपञ्चकाञ्चिते कुतो तोदेति [^1]कृपा तथा त्वयि ॥५५॥
 

 
सदेति -- मधुपानां भृङ्गाणां "मधुलिण्मधुपालिनः" इत्यमरः । आवलीमेव

पङ्क्तिमेव गुणं मौर्वीवीं स्पृशतीति तादृशेन । भृङ्गाणां मदनधनुःशिञ्जिनी- त्वेन
तत्संस्पर्शावश्यंभाव इति भावः । अन्यत्र मधुपानां मद्यपायिनां आवले: गुणं
शीलं सदा मद्यसेवनरूपं स्पृशति अवलम्बत इति तादृशेन । सदा मधुपायिनेत्यर्थः ।
अङ्गजन्मना मदनेन। अन्यत्र पुत्रेण । यद्वा अङ्गेल्या- मन्त्रणे । जन्मना उत्पत्त्या जन-
नादारभ्येति यावत् । मधुपावलीगुणस्पृशा तादृशेन जनेनेत्यर्थः । सदा अनवरतम् ।
स्पृहया लिप्सया । न पुनः कदाचित् नापि प्रमादादित्यर्थः । सख्यं सौहृदं संसर्
गे च । विधत्से विशेषतः कुरुषे । चन्द्रमदनसौहार्दस्य प्रसिद्धत्वादिति भावः ।
बुद्धिकृतत्वचिरपरि- शीलितत्वोक्त्या प्रायश्चित्तानपनोद्यत्वं व्यज्यते । अतः एवं
एकैकजातीयानां पञ्चानां मेलनादित्यर्थः । महापातकपञ्चकाञ्चिते पूर्वोक्तविधया
 

 
[^
1] कृपाऽथवा.