This page has not been fully proofread.

१३२
 
रुक्मिणीकल्याणे सव्याख्याने
 
-
 
इति धातोर्लोट् ॥ त्वयि मया प्रीतिकरणे मय्यपि त्वया प्रीतिविधानमावश्यकमिति
भावः । नैवं चेल्लोकविरुद्धो भवसीत्याह — भवता विना त्वामन्तरेण । अपरः
त्वदन्यः । सहजाया: सोदर्याः पतिं भावुकम् । द्विषन् सन् द्रुह्यन् सन् । नो समीक्ष्यते
न दृश्यते । केनापीत्यर्थः । भवदन्यो भगिनीपतिद्वेषी दृष्टःश्रुतश्च न भवतीति
भावः । द्विषन् न समीक्ष्यत इति द्वेषाभावस्य वर्तमानत्वप्रतीत्या सकललोक-
विरुद्ध ईदृशो द्वेषः यत्र क्वचन प्रत्यक्षदृष्ट एव पारमार्थिकतयाभ्युपेयो न
पुन: प्रमाणान्तरेण केनाप्यवगत इति व्यापकः । अतस्सर्वमिदमालोच्य विरोध
मुन्मुच्यानुकूलो भवेत्यर्थः । अत्र कुत इति कर्तव्ये कर्मणि प्रथमं प्रयोजनविचार:
कार्य इति, वृथेति निष्फलं कर्म नानुष्ठेयमिति, श्रियोऽनुज इति बन्धूपलालनं
तद्विरोधाभावश्च कार्य इति, सम्मत इति विश्वस्तद्रोहो न कार्य इति, भजानुकम्पामिति
प्रार्थनाभङ्गो न कार्य इति, सहजापतिं द्विषन्न समीक्ष्यत इति लोकानुकरणं कार्य
तद्विरोधश्च न कार्य:, इत्येवमादिनीतिप्रदर्शनरूपं प्रलोभनं कृतमिति ध्येयम् ।
कुत इत्याक्षेपाद्विधेयस्य विरोधाभावस्य श्रियोनुज इत्यादि वाक्यार्थेन समर्थनात्
बहुवाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारः ॥ ५३ ॥
 
.
 
एवं भेदेनाप्यनुकूलीकरणमशक्यं निश्चित्य त्रिभिरुपायैरसाधनीयस्य
चतुर्थेन दण्डेनैव निर्वाह्यतया तत्र च कायिकस्यार्थकृतस्य च प्रकृतदण्डस्यासं
भवात् तदीयमहापातकोद्घाटनेन निन्दारूपं धिग्दण्डं पातयति द्वाभ्यां कुळकेन--
विधो सुराहारतयासि विश्रुतस्तथा समुद्यद्गुरुदाररागभाक् ।
निशासु हन्तास्ययुतद्विजावलेश्चिराय हैमीं श्रियमाहरस्यपि ॥
 
विधो इति – हे विधो त्वमिति शेषः । त्वं सुराणां देवानां आहारतया
अभ्यवहार्यतया । विश्रुतः प्रसिद्धः विशेषेण श्रुतिप्रतिपादितो वा । " प्रथमां पित्रते
वह्निः" इत्यादिश्रुतेः । अन्यत्र सुरा हाला आहारो अभ्यवहार्य यस्य तादृशः ।
अत्रापेयत्वमुक्त्वा आहारत्वकथनं सुरापत्वमहापातकस्य चिरकालं बुद्धिपूर्व-
कृतत्वप्रत्यायनार्थम् । तस्य भावस्तत्ता तया सुरापायित्वधर्मवत्तया । विश्रुतः
प्रसिद्धः असि । अपीति प्रश्नार्थकं प्रतिवाक्यमन्वेति अप्यसि भवसि नन्वित्यर्थः ।
तेन सर्वोऽप्ययं दोषस्त्वदभ्युपगमनीय एव नापलापार्ह इति व्यज्यते । अतस्साक्षि-