This page has been fully proofread once and needs a second look.

सान्त्ववादमात्रं अनलं मन्वानो दानेन द्वितीयोपायेनावर्जयति । अहं ईदृश-
गुणविशिष्ट इत्यर्थः । रुक्मिणीहृदयानन्दनगुणबृन्दवानिति भावः । तेन
वक्ष्यमाणरुक्मिणीसमागमस्यासन्दिग्धत्वमनुपदभावित्वं च व्यज्यते । पुरा
पूर्वजन्मनीत्यर्थः । तेनैकस्मिन् जन्मनि कर्तुमशक्यत्वं तेन चापरिमेयत्वं च
सुकृतानां व्यज्यते । सुकृतेः पुण्यैः । " पुण्यश्रेयसी सुकृतं वृष: " इत्यमरः ।
तया रुक्मिण्या । युतश्चेन्मिलितो यदि । तदेति शेषः । तत्काल एवेत्यर्थः । तव ते तुभ्यमिति यावत् । तदास्यस्य रुक्मिणीवदनस्य दास्यं दासभावम् । निरूपितत्वं षष्ठ्यर्थः । दासत्वकथनेन स्वामित्वमाक्षिप्यते । ततश्च रुक्मिणीवदननिष्ठस्वामित्वनिरूपितदास्यत्वरूपमनितरसुलभं महाधिकार मिति भावः । दापयामि रुक्मिणीमुद्बोध्य तन्मुखेन समर्पयामीत्यर्थः । तल्लाभस्य शैघ्र्यप्रत्यायनार्थः "वर्तमानसामीप्ये वर्तमानवद्वा" इति भविष्य- दर्थेऽपि लटः प्रयोगः । रुक्मिणीवदनस्य त्वत्तोऽत्यन्तातिशयितप्रभाप्रभाव- वत्तया तद्दासभावेऽप्ययोग्यस्य तव मन्मुखेन तदास्यदास्याधिगमस्य परम- लाभतया तत्संपादयतो ममानुवर्तनं तवावश्यकमिति भावः । भ्रान्तिमान् वृत्त्यनुप्रासश्चालङ्कारः ॥ ५२ ॥
 
अथेदानीं दानेनावर्जनमप्यशक्यं मन्वानस्तृतीयोपाये भेदे प्रयोजयितव्ये
भेदनीयस्य प्रतिपक्षस्य एकव्यक्तिरूपतया परस्परविद्वेषजननरूपस्य भेदस्यासंभाविततया प्रकृते प्रलोभनमेव भेदं मन्वान आह --
 
कुतो विरोधं कुरुषे वृथा विधो श्रियोऽनुजः स्यालतयासि सम्मतः ।
भजानुकम्पां भवता विनापर: समीक्ष्यते नो सहजापतिं द्विषन् ॥
 
कुत इति – हे विधो चन्द्र । कुतः कस्मात्प्रयोजनात् । विरोधं विद्वेषम् ।
मयेति शेषः । कुरुषे करोषि । न किञ्चित्प्रयोजनमुपलभ्यत इति भावः । वृथा निष्फलं मद्विरोधकरणमयुक्तमित्यर्थः । भवद्विदितं विरोधनिमित्तं यत्किञ्चित् स्यादित्यतस्तत्संभावनैव नास्तीत्याह । श्रियः लक्ष्म्याः । अनुजः भ्राता । त्वमिति शेष: । अत: स्यालतया गृहिणीसोदरत्वेन । ममेति शेषः । सम्मतः विश्वसनीयः । मम प्रेमपात्रमिति भावः । असि भवसि । अतो विरोधसंभावनैव नास्तीति भावः । अत इति शेषः । अनुकम्पां कृपाम् । भज सेवस्व प्राप्नुहीत्यर्थः । "भज सेवायाम् "
 
-