This page has been fully proofread once and needs a second look.

द्वितीयस्सर्ग:
 
१३१
 
सान्त्ववादमात्रं अनलं मन्वानो दानेन द्वितीयोपायेनावर्जयति । अहं ईदृश-

गुणविशिष्ट इत्यर्थः । रुक्मिणीहृदयानन्द नगुणबृन्दवानिति भावः । तेन

वक्ष्यमाणरुक्मिणीसमागमस्यासन्दिग्धत्वमनुपदभावित्वं च व्यज्यते । पुरा

पूर्वजन्मनीत्यर्थः । तेनैकस्मिन् जन्मनि कर्तुमशक्यत्वं तेन चापरिमेयत्वं च

सुकृतानां व्यज्यते । सुकृतेः पुण्यैः । " पुण्यश्रेयसी सुकृतं वृष: " इत्यमरः ।

तया रुक्मिण्या । युतश्चेन्मिलितो यदि । तदेति शेषः । तत्काल एवेत्यर्थः । तव ते
तुभ्यमिति यावत् । तदास्यस्य रुक्मिणीवदनस्य दास्यं दासभावम् । निरूपितत्वं
षष्ठ्यर्थः । दासत्वकथनेन स्वामित्वमाक्षिप्यते । ततश्च रुक्मिणीवदननिष्ठस्वामित्व-
निरूपितदास्यत्वरूपमनितरसुलभं महाधिकार मिति भावः । दापयामि रुक्मिणी-
मुद्बोध्य तन्मुखेन समर्पयामीत्यर्थः । तल्लाभस्य शैघ्र्यप्रत्यायनार्थः "वर्तमान-
सामीप्ये वर्तमानवद्वा" इति भविष्य- दर्थेऽपि लटः प्रयोगः । रुक्मिणीवदनस्य
त्वत्तोऽत्यन्तातिशयितप्रभाप्रभाव- वत्तया तद्दासभावेऽप्ययोग्यस्य तव मन्मुखेन
तदास्यदास्याधिगमस्य परम- लाभतया तत्संपादयतो ममानुवर्तनं तवावश्यकमिति
भावः । भ्रान्तिमान् वृत्त्यनुप्रासश्चालङ्कारः ॥ ५२ ॥
 

 
अथेदानीं दानेनावर्जनमप्यशक्यं मन्वानस्तृतीयोपाये भेदे प्रयोजयितव्ये

भेदनीयस्य प्रतिपक्षस्य एकव्यक्तिरूपतया परस्परविद्वेषजननरूपस्य भेदस्या-
संभाविततया प्रकृते प्रलोभनमेव भेदं मन्वान आह --
 

 
कुतो विरोधं कुरुषे वृथा विधो श्रियोऽनुजः स्यालतयासि सम्मतः ।

भजानुकम्पां भवता विनापर: समीक्ष्यते नो सहजापतिं द्विषन् ॥
 
1
 

 
कुत इति – हे विधो चन्द्र । कुतः कस्मात्प्रयोजनात् । विरोधं विद्वेषम् ।

मयेति शेषः । कुरुषे करोषि न किञ्चित्प्रयोजनमुपलभ्यत इति भावः । वृथा निष्फलं
मद्विरोधकरणमयुक्तमित्यर्थः । भवद्विदितं विरोधनिमित्तं यत्किञ्चित् स्यादित्य-
तस्तत्संभावनैव नास्तीत्याह । श्रियः लक्ष्म्याः । अनुजः भ्राता । त्वमिति शेष:
अत: स्यालतया गृहिणीसोदरत्वेन । ममेति शेषः । सम्मतः विश्वसनीयः 1
मम प्रेमपात्रमिति भावः । असि भवसि । अतो विरोधसंभावनैव नास्तीति भावः ।
अत इति शेषः । अनुकम्पां कृपाम् । भज सेवस्व प्राप्नुहीत्यर्थः । "भज सेवायाम् "
 

 
-