2023-04-06 02:51:03 by ambuda-bot
This page has not been fully proofread.
१३०
रुक्मिणीकल्याणे सव्याख्याने
संख्या शताधिका " इत्यमरः । सृजतात् उत्पादयतु । लोकहिंसकस्य लवोत्पादन-
समुद्भूतां दुष्कीर्ति परिहर्तुं सकललोकोपकरणधुरन्धर राणि सहस्राधिकानि भूयो-
भूय: कामं जनयत्वित्यर्थः। तथापि तथाकृतेऽपीत्यर्थः । भवदीयसृष्टिजं त्वदुत्पादन-
जनितं निजं स्वकीयम् । पूर्वमेव निखिलजगत्प्रसिद्धमिति भावः । दुर्यशः दुष्कीर्तिम् ।
मा निराकर्तुम् । नेष्टे न शक्नोति । "एको हि दोषो गुणसन्निपाते निमज्जतीन्दोः
किरणेविवाङ्क: " इति न्यायेन दुर्यशोनिवारणप्रत्याशायामपि तादृशन्यायस्याल्प-
दोषमात्र विषयत्वेन दोषस्य बलवत्तरत्वे तु "स्याद्वपुः सुन्दरमपि श्वित्रेणैकेन
दुर्भगम् " इति न्यायस्यैवावतारादीदृशापकीर्तिः कदापि न व्यपैतीति भावः ।
अत्र पयोनिधिकृतं सुधाद्युत्पादनं प्रति तत्पूर्वकृतचन्द्रोत्पादनप्रयुक्तदुर्यशोमार्जनं
फलतया संभावितमिति फलोत्प्रेक्षा व्यङ्गया । अयशोमार्जनसाधने सुधोर्मिजगदा-
नन्दनबहुतरवस्तूत्पादने सत्यपि फलीभूतायशोमार्जनानिष्पत्तिवर्णनात् विशे-
षोक्तिः । दोषाकरेति सम्बुद्धेः जनयितुरयशस्संपादनसमर्थत्वाभिप्रायगर्भस्य सन्नि-
वेशात् परिकराङ्कुरश्च श्लेषसङ्कीर्णः ॥ ५१ ॥
तुषानलभ्रान्तिकरैः करोत्करैः तुषारभानो 'तुदसि प्रसीद मे ।
तदास्यदास्यं तव दापयाम्यहं तया युतश्चेत्सुकृतैः पुराकृतैः ॥ ५२ ॥
तुषानलेति – हे तुषारभानो हिमांशो । विरोधिनोऽपि साम्ना समा-
वर्जनं हिममयकिरणवत्त्वेन सम्बोधनम् । अथवा यथा तुषाराणामतिशीतलत्वे
प्रत्यक्षसिद्धेऽपि कमलिनीसमूलदहनवत् शीतकरणत्वप्रसिद्भावपि तथैव तव
विरहिसन्तापकत्वमित्यभिप्रायकं सम्बोधनम् । तुषानला इति तुषाग्नय इति अन्ये
त्वदुद्भूतानलवर्ष इत्यर्थः । भ्रान्ति भ्रमं कुर्वन्तीति तादृशैः । तुषाग्नेरतितापहेतुत्व-
प्रसिद्धेरिति भावः । यद्वा तापकारित्वातिरेकेण सूक्ष्मत्वधवलत्व सर्वतःप्रसृतत्वादि-
धर्मान्तरैरपि साधर्म्यसत्वात्तुषाग्निगवेषणमिति मन्तव्यम् । करोत्करैः किरण-
जालैः । "उत्कर: कूटमस्त्रियाम् " इत्यमरः । तुदसि व्यथयसि । हिंसार्थकात्
तुद व्यथने " इति धातोर्लट् । मे मह्यम् । प्रसीद दयस्व । अथ निर्दयत्वपरिज्ञानेन
1 G. न तुद.