This page has been fully proofread once and needs a second look.

सगर्भ्यतेति – हे शशलाञ्छन इन्दो । विषानिमेषाशनयो: कालकूटामृतयोः। त्वया भवता सह । सगर्भ्यता सहजता सहोदरत्वमित्यर्थः । "सगर्भ्यसहजा-
स्समाः " इत्यमरः । नो विशिष्यते न विशेषितो भवति । सर्वेषां सागरो- त्पन्नत्वा विशेषेण विषे यादृशी सगर्भ्यता तादृश्येवामृतेऽपीति तुल्यैवेत्यर्थः । तथापि अनुबन्धसाम्येऽपि । अनुबन्धनिमित्तकतया कस्यचित् गुणानुकरणे भवितव्ये सकललोकानन्दकस्यामृतस्यानुकरणे मुख्यतया संभाविते सत्य- पीति भावः । आद्यस्य विषस्य अनुकृतिं अनुकरणम् । किं करोषि कुतः कुरुषे । नैतत्सांप्रतमिति भावः। अमुमर्थं सामान्येन समर्थयति । जन्मना उत्पत्त्या जननावसर एवेत्यर्थः । वक्राः कुटिला: वक्राकारा: दुर्जनाश्च । मलिनानुवर्तिनः मालिनान् मलीमसान् नीलवर्णान् पापिनश्च अनुवर्तन्ते अनुसरन्तीति तादृशाः । नेति काकुः । भवन्तीति शेष: । काक्वा न भवन्ति किं भवन्त्येवेत्यर्थः । अतस्तवापि उत्पत्तिकाले एकद्वित्रिकलात्मतायां कुटिलाकारतया तादृशस्य तत्त्वातीतमलीमसक्रूरकालकूटगुणानुकरणं युज्यत एवेति उत्पत्तिसमनन्तरमेव भगवता भूषाकृतस्य वक्राकरत्वमस्यो त्पत्तौ .। अत्र सोदरयोर्द्वयोः सतोरेकमात्रानुकरणरूपस्य चन्द्रकृतस्य विशेषस्य न जन्मवक्रेत्यादि सामान्येन समर्थनादर्थान्तरन्यासः । श्लेषानु प्राणित इति सङ्करः ॥ ५० ॥
 
सुधेन्दिरास्वस्तरुकौस्तुभादिकं परस्सहस्रं सृजतात्पयोनिधिः[^1] ।
तथापि दोषाकर दुर्यशो निजं न मार्ष्टुमीष्टे[^2] भवदीयसृष्टिजम् ॥ ५१॥
 
सुधेति- हे दोषाकर निशाकर । दोषाणां विरहिहिंसादिरूपाणां पापाना- माकर । पयोनिधि: क्षीरसागर: त्वदुत्पादक इति भावः । सुधा अमृतं
इन्दिरा लक्ष्मीः स्वस्तरवः मन्दारादयो देवतरवः कौस्तुभो विष्णूपगृहीतो मणिविशेषश्च इमानि आदीनि यस्य तादृशम् । सामान्ये नपुंसकं जातावे- कवचतम् । ईदृशं सकललोकोपकारकं वस्तुजातमिति भावः । आदिपदात् चिन्तामणिसुरभ्यादयो गृह्यन्ते । परस्सहस्रं सहस्रसंख्यातीतम् । " परश्श- ताद्यास्ते येषां परा
 
 
[^1] G. प्रजापतिः
[^2] G. न तत्प्रमार्ष्टुमीष्टे.