This page has been fully proofread once and needs a second look.

द्वितीयस्सर्गः
 
१२९
 
सर्म्
सगर्भ्यतेति – हे शशलाञ्छन इन्दो । विषानिमेषाशनयो: कालकूटामृत-
योः । त्वया भवता सह । सगर्भ्यता सहजता सहोदरत्वमित्यर्थः । "सगर्म्भ्यसहजा-

स्समाः " इत्यमरः । नो विशिष्यते न विशेषितो भवति । सर्वेषां सागरो- त्पन्नत्वा-
विशेषेण विषे यादृशी सगर्भ्यता तादृश्येवामृतेऽपीति तुल्यैवेत्यर्थः । तथापि अनु-
बन्धसाम्येऽपि । अनुबन्धनिमित्तकतया कस्यचित् गुणानुकरणे भवितव्ये सकल-
लोकानन्दकस्यामृतस्यानुकरणे मुख्यतया संभाविते सत्य- पीति भावः । आद्यस्य
विषस्य अनुकृतितिं अनुकरणम् । किं करोषि कुतः कुरुषे । नैतत्सांप्रतमिति भावः
अमुमर्थं सामान्येन समर्थयति । जन्मना उत्पत्त्या जननावसर एवेत्यर्थः । वक्राः
कुटिला: वक्राकारा: दुर्जनाश्च । मलिनानुवर्तिनः मालिनान् मलीमसान् नील-
वर्णान् पापिनश्च अनुवर्तन्ते अनुसरन्तीति तादृशाः । नेति काकुः । भवन्तीति
शेष: । काक्कावा न भवन्ति किं भवन्त्येवेत्यर्थः । अतस्तवापि उत्पत्तिकाले
एकद्वित्रिकलात्मतायां कुटिलाकारतया तादृशस्य तत्त्वातीतमलीमसक्रूरकाल-
कूटगुणानुकरणं युज्यत एवेति उत्पत्तिसमनन्तरमेव भगवता भूषाकृतस्य
वक्राकरत्वमस्यो त्पत्तौ .
। अत्र सोदरयोर्द्वयोः सतोरेक-
मात्रानुकरणरूपस्य चन्द्रकृतस्य विशेषस्य न जन्मवक्रेत्यादि सामान्येन
समर्थनादर्थान्तरन्यासः । श्लेषानु प्राणित इति सङ्करः ॥ ५० ॥
 
-
 

 
सुधेन्दिरास्त्रस्तरु कौस्तुभादिकं परस्सहस्रं सृजतात्पयोनिधिः' ।
[^1] ।
तथापि दोषाकर दुर्यशो निजं न मार्छुपीष्टुमीष्टे[^2] भवदीयसृष्टिजम् ॥५१॥
 

 
सुधेति- हे दोषाकर निशाकर । दोषाणां विरहिहिंसादिरूपाणां
पापाना- माकर । पयोनिधि: क्षीरसागर : त्वदुत्पादक इति भावः । सुधा अमृतं

इन्दिरा लक्ष्मीः स्वस्तरवः मन्दारादयो देवतरवः कौस्तुभो विष्णूपगृहीतो मणि-
विशेषश्च इमानि आदीनि यस्य तादृशम् । सामान्ये नपुंसकं जातावे- कवचतम् ।
ईदृशं सकललोकोपकारकं वस्तुजातमिति भावः । आदिपदात् चिन्तामणि-
सुरभ्यादयो गृह्यन्ते । परस्सहस्रं सहस्रसंख्यातीतम् । " परश्श- ताद्यास्ते येषां परा
 
9

 
 
[^1]
G. न तत्प्रजापतिः
[^2] G. न तत्प्र
मार्छुष्टुमीष्टे,
 
1 G
. प्रजापतिः
 
17