2023-04-06 02:51:03 by ambuda-bot
This page has not been fully proofread.
१२८
रुक्मिणीकल्याणे सव्याख्याने
अहो भवानन्तरशान्तपावकं हराक्षिदग्धस्मरभस्ममण्डलम् ।
दहन्ति हा हन्त मरुधुता विधो कराङ्कुराकारभृतः कणा यतः ॥
n
अहो इति- हे विधो चन्द्र । भवान् त्वम् । अन्त: मध्यदेशे । अशान्तः
अप्रशमितः पावकः वह्निर्यस्मिन् तादृशम् । क्रमात् भस्मीभवने अन्तः सर्वात्मना
भस्मीभावमनापत्तेर्भस्माकारैरपि किञ्चित् सारावशेषेणाशान्तानलावयवोपेतमिति
भावः । हरस्य शिवस्याक्ष्णा ललाटनेत्रेण दग्धस्य स्मरस्य भस्मनां भसितानां
मण्डलं राशिः । न पुनस्तद्व्यतिरेकेण चन्द्र इति कश्चिदस्तीति भावः । अत्र
हेतुमाह – यतः यस्माद्धेतो: । मरुता वायुना धुता: कम्पिता: । आनीता इति
यावत् । कणाः वह्निकणा: । कराकुराः चन्द्रस्य किरणप्ररोहा इति आकारं
स्वरूपं बिभ्रतीति तादृशाः सन्तः । कराकुराः इति विवेचकलोकगृह्यमाणा
उक्तभस्मनामेवाकाराः न पुनश्चन्द्रकिरणा इति किञ्चित्परमस्तीति भावः । दहन्ति
तपन्ति । विरहिण इति भावः । हा हन्त महत्कष्टमित्यर्थः । हराक्षिवह्निदाहेन
स्वरूपनाशं प्राप्य भस्मावशेषितस्यापि मदनस्याद्यापि विरहिसन्तापनदौश्शील्य-
व्यपगमाभावेन विरहिणां दु:खनिवृत्तिर्न कदापि इति भावः । यद्वा हा हन्त
महदाश्चर्यमित्यर्थः । बहो: कालाद्दह्यमानस्यापि मदनस्याद्यापि सर्वात्मना भस्मी-
भावाभावे तद्देहस्य कियती सारवत्ता यदद्यापि सारावशेष । दग्निमत्ता । भस्मावयवस्य
लक्षद्वितययोजनान्तरं वातोद्धूतानामपि भस्मकणानामनलानपगम इति महदिद-
मद्भुतमिति भावः । अत्र चन्द्रकिरणाङ्कुरेषु तथात्वमपनुत्यारोपितेन मरुदुद्भूत-
साग्निकभसितकणगणेन हेतुना तदुद्भवस्थानभूतस्य चन्द्रमण्डलस्य हरनयनानल-
दग्धमदन।ङ्गभस्ममण्डलत्वस्य साधनादनुमानालङ्कारः । स च कराङ्कुरेश्व-
सत्यत्वपर्यवसायाकारपदाधिगतापह्नवगर्भित इति सङ्करः ॥ ४९ ॥
सगर्ग्यता नो शशलाञ्छन त्वया विषानिमेषाशनयोर्विशिष्यते ।
तथापि चाद्यानुकृतिं करोषि किं न जन्मवक्रा मलिनानुवर्तिनः ॥
2 G. सृतिम..
1 G. हृतः
.