This page has been fully proofread once and needs a second look.

द्वितीयस्सर्गः
 
१२७
 
अमन्ददर्पाविति मारुतपरित्यागेन चन्द्रमदनयोः केवलं दर्पकथनं चेतन- त्वाभि-
प्रायेणेति मन्तव्यम् । वृत्त्यनुप्रासोऽलङ्कारः ॥ ४७ ॥
 

अथाष्टभिः पद्यैः चन्द्रोपालम्भमाह -
 

 
स कालकूटोऽसि शशिन्न चेत्कथं समुल्लसेन्मोहनशक्तिरीदृशी ।

भवन्तमाकारविलेखनभ्रमात् प्रजा: कलाकूटतया प्रचक्षते ॥ ४८ ॥
 

 
स इति-
-हे शशिन् चन्द्र । त्वमिति शेषः । स त्वं विरहिजनसम्मोहकत्वेन

प्रसिद्ध इत्यर्थः । कालकूट: कालकूटाख्यविषस्वरूपः । असि भवसि । न चेत्
तथा न भवसि यदि । ईदृशी एवमनिर्वचनीया । मोहने विरहिजन विवशीकरणे
विषये शक्ति: सामर्थ्यविशेष: । तवेति शेषः । कथं किमिति । समुल्लसेत्
संभवेत् । लसते: कर्तरि लिङ् । महाविषं कालकूटमन्तरा एवं मोहकत्वं
क्वापि न दृष्टचरं नापि श्रुतचरमित्यर्थः । तर्हि तथा कुतो न लोका व्यवह-
रन्तीत्यतो लोकव्यवहारमप्युपपादयति । प्रजा: प्राणिनः । भवन्तं त्वाम् ।
आकारस्य भवदीयनामावयवीभूतस्य कालकूट इति ककारोत्तर लेखनीयस्य आकारस्य
विलेखने तथैव विन्यसने विषये भ्रमात् विपर्ययात् । कलाकूट इति लकारोत्तर-
लेखनीयता भ्रान्त्या एकत्र्व्यंजनोपरि लेखनी- यस्यान्यत्र लेखने तदुपरितनस्यापि
व्यत्ययलेखनमर्थतः सिध्यतीति भावः । कलाकूटतया कलाकूटशब्दप्रतिपाद्यतया ।
प्रचक्षते व्यवहरन्ति । इत्थं च कालकूट इति व्यवहर्तव्ये वर्णविन्यासस्थानव्यत्ययेन
भ्रमात् पाठेऽपि कालकूटविषत्वेन व्यवहारस्य पृषोदरादित्वात् साधुत्वे संभवति
सति केचन कलानां षोडशांशानां कूट: समुदाय इति व्युत्पत्तिमाश्रित्य तस्यैव
कलाकूट इति व्यवहारस्यार्थान्तरं परिकल्पयन्ति । तेऽपि खलु व्यावहारिक
शब्दोत्प- त्तिमूलमपरिज्ञाय स्थितगतिकल्पका भ्रान्ता एवेति भावः ।
अत्र जगन्मोहन शक्तिमत्त्वेन हेतुना यदि त्वं कालकूटो न स्यास्तीतर्हीत्थं जगन्मोहन-
शक्ति- मानपि न स्या इति अनुकूलतर्क सहकृतेनानुमानेन लब्धात्मनः कालकूटत्वस्य
- त्वस्य कालकूटशब्दस्यार्थान्तरंगर्भतारूपछेकोक्तिरूपेण समर्थनमिति सङ्करः ।
" छेको-
क्तिर्यत्र लोकोक्तेः स्यादर्थान्तर गर्भता " इति लक्षणात् ॥ ४८ ॥
 

 
-