This page has been fully proofread once and needs a second look.

१२५
 
द्वितीयस्सर्गः
 
प्रकारे विधाने वा विशृङ्खलः निरर्गलं [लः तम् ] स्वानुष्ठितप्रतिविधायि- प्रत्यर्थि
रहितमित्यर्थः । क्षणदाधिपं चन्द्रम् । कथं ग्रसेत भक्षयेत् । न ग्रसेतैवेत्यर्थः ।
" गृ निगरणे " इति धातोरात्मनेपदे लिङ् । राहोरप्युक्त- विधया विरहिकोटिप्रविष्ट-
तया चन्द्रेणैवनिग्राह्यत्वावश्यम्भावे पूर्वोक्ता
मदीयाशंसा न भवेदिति भावः
पूर्वोत्तरयोरनयोरेकवाक्येनाक्षेपालङ्कारः ॥ ४४ ॥
 

 
जगत्प्रभोरेष जटाटवीधुने र्ललाटवद्वेह्नेश्च चमूरुलाञ्छनः ।

अधीत्य शीतोष्णकृतौ कृती कुले व्यनक्ति ते युक्तवियुक्तवर्गयोः ॥
 
४५॥
 
जगदिति – शीतं च उष्णं च शीतोष्णे तयोः कृतौ करणे विषये । कृती

कुशलः । अत्यन्तशिशिरीकरणातितापकरणयोर्विचक्षण इत्यर्थः । जग- च्छीती-
करणविरहिसन्तापनयोः दृष्टचत्वादिति भावः । एष चमूरुलाञ्छनः एष चन्द्र ।
जगत्प्रभोः परमेश्वरस्य । नित्यनिवासस्थानीभूतमस्तकस्येति भावः । जटाटवीधुनेः
जटाजूटनिबद्धाया गङ्गायाः सकाशात् । ललाटवह्नेः नेत्राग्नेश्च सकाशात् । अधीत्य
अभ्यस्य । प्रकरणात् शीतोष्णे इत्यर्थः । सन्ततसन्निहितयोः गङ्गानेत्रानलयोरन्ते-
वासीभूय शीतोष्णरूपे विद्ये
परिगृह्येति भावः । ते शीतोष्णे । क्रमेण युक्तयोः
मिलितयोः वियुक्तयोः विरहिणोश्च वर्गयोः स्त्रीपुंसबृन्दयोरित्यर्थः । कुलेऽस्य रतये
यद्वा युक्तानां वियुक्तानां च वर्गयोः युक्तवर्गे शीतमयुक्तवर्गे तापं चेत्यर्थः ।
व्यक्ति प्रकाशयति । विपूर्वात् "अञ्जुजू व्यक्तिश्लक्ष्णकान्तिगतिषु " इति
धातो:
लट् । अत्र चन्द्रेण युक्तवियुक्तवर्गविनियोजितशीतोष्णाधिगमं प्रति

शिवशिर: स्थिताया गङ्गायाः फाललोचनादध्ययनमहेतुरेव हेतुतया ल्यबा

निर्दिष्टमिति हेतूत्प्रेक्षा व्यञ्जकाभावात् गम्या, यथासंख्येन संसृष्टि: ॥ ४५ ॥
 

 

 
नमो महिम्ने नटते दिनावधौ वियुक्तलीलावियुतोऽपि यः पुरा ।

जटाटवीझाटकुटीकुटुङ्गभूकुटुम्बिनीन्दौ कुशली समेधते ॥ ४६ ॥
 

 
नम इति – दिनावधौ प्रदोषसमये । नटते नृत्यते आनन्दनटनमाचरते ।

तेन शिवस्य नित्यानन्दनिर्भरत्वं व्यज्यते । महिम्ने भूम्ने महेश्वराय । नमः प्रह्नोलोऽस्मी-
त्यर्थः । "नमःस्वस्ति" इत्यादिना चतुर्थी । महिम्न इत्यनेन निरतिशयधैर्यातिशय-