This page has not been fully proofread.

१२४
 
रुक्मिणीकल्याणे सव्याख्याने
 
"
 
विशृङ्खलं निरर्गलं यथातथा सर्वाशेनेति भावः । गिरन् भक्षयन् सन् । जिह्मगाः
भुजगाः । " जिह्मगः पवनाशन: " इत्यमरः । जिह्मं कुटिलं यथातथा गच्छन्ति
चरन्ति स्वीयसर्वकृत्यमाचरन्तीति जिह्मगा दुर्जनाश्च । न परोपकारप्रवणाः परेषा-
मुपकारे हिताचरणे प्रवणा: प्रवृत्ताः न नभवन्तीत्यर्थ: । इति एवम् । जगति निरूढां
प्रथां ख्यातिम् । स्वस्य निन्दारूपामिति भावः । मुधा मिथ्याभूताम् । विधास्यति
किन्नु रचयिष्यति किमु। परेषां बहूनां विरहिणामुपकाररूपे राहुणा निर्वर्तिते तस्य
परोपकारित्वख्यात्या जिलगा: परोपकारशीला न भवन्तीति प्रथा स्वयमेव
व्यपैतीत्यर्थः । स्वाभ्यवहारे मुख्यफले अनुभुज्यमाने परेषामुपकारोऽप्यनुनिष्पन्नो
भवति । ततश्च जगति चिरनिरूढा भुजगत्वेन सजातीयानामुरगाणां कुटिल-
गन्तृतया सजातीयानां दुर्जनानां चापख्यातिश्च परिहृता भवतीति भावः ।
इन्तेति हर्षे । स च सर्वात्मना चन्द्रनाशे चन्द्रकृता व्यथैव कदापि न स्यादिति,
राहोश्च क्षुधानिवृत्तिस्तज्जातिमात्रस्य दुरपख्यातिनिवृत्तिश्च भवतीति । "हन्त
हर्षेऽनुकम्पायां वाक्यारंभविषादयोः " इत्यमरः । प्रहर्षणं नामालङ्कारः ।
"वाञ्छितादधिकार्थस्य संसिद्धिश्च प्रहर्षणम् " इति लक्षणात् ॥ ४३ ॥
 

 
वधूकुचाश्लेषविशेषवञ्चितो विधुन्तुदस्सामिवियोगविक्लवः ।
'वियोगिपीडैकविधाविशृङ्खलं ग्रसेत या क्षणदाधिपं कथम् ॥४४॥
 
वधूकुचेति – पूर्वोक्तं राहुमुखेन चन्द्रनिग्रहरूपार्थमाक्षिपति । यद्वा
आहोस्वित् । वधूकुचाश्लेष: वनितास्तनपरिरम्भ एव विशेष: सम्भोगभेदः तेन
वञ्चितः विनाकृतः । अमृतपरिवेषणावसरे जगन्मोहनस्त्री वेषधारिणा विष्णुना राहो:
शिरोमात्रावशेषिततया स्तनपरिरम्भसम्भावनाया एवाभावादिति भावः । अत एव
सामि अर्धाशेन । "सामि त्वर्धे जुगुप्सने " इत्यमरः । वियोगेन विरहेण विक्लब:
विह्वलः। नायिकासल्लापाघरास्वादादिसम्भोगसम्भवेऽपि स्तनपरिरम्भादीनामभावेन
अलब्धविरहावश्यम्भावेनार्धवियोगानपायादिति भावः । विधुन्तुदः राहुः ।
वियोगिनां विरहिणां सामान्यतो विरहिजनमात्रस्येत्यर्थः । पीडाया व्यथाया एकस्या
मुख्यभूताया: केवलाया वा स्वात्मकृयत्वेन प्रसिद्धाया इति भावः । विधायां
1 A. वियोगबाधक