This page has been fully proofread once and needs a second look.

मज्जनं सलिलनिमज्जनम् । कुतः स्यात् कथं भवेत् कदापि न भवेदित्यर्थः ।
अन्यसन्तारणस्य स्वतो मज्जनस्यासंभावितत्वादिति भावः । अत इयं मदीया प्रार्थना न फलिष्यतीति भावः । अत्र स्वेनैवाशंसितस्य प्रार्थितस्य च स्वयमेवाक्षेपादाक्षेपालङ्कारः। "आक्षेपः स्वयमुक्तस्य प्रतिषेधो विचारणात्।" इति लक्षणात् । श्लेषेण सङ्करश्च ॥ ४१ ॥
 
घनावलीयं क्षणमर्धमेव वा कठोरवृत्तिं क्षणादाकुटुम्बिनम् ।
पिधाय जायेत मम प्रियाय किं मुदेऽथ वा स्यात्किमु मेघसन्ततिः ॥ ४२ ॥
 
घनावलीति - इयं परिदृश्यमाना । घनावली मेघमाला । कठोरा क्रूरा
विरहिजनपीडयित्री वृत्तिः व्यापारो यस्य तादृशम् । अत्यन्ततापकारिण- मित्यर्थः । क्षणदया कुडुम्बिनं गृहमेधिनं निशापतिमित्यर्थ: । क्षणं क्षणकाल मात्रं वा । अर्धमेव वा अर्धं क्षणकालं वा । पिधाय तिरोधाय । मम प्रियाय
प्रीतये, चन्द्रदर्शनजनितदुःखनिवृत्तये । तादर्थ्ये चतुर्थी । स्यात् किं भवेत्
किमु । क्षणमात्रं वा घनेन चन्द्रे तिरोहिते तावन्मात्रं वा निवृत्तदुःखो भवेय- मिति भावः । अमुमर्थमाक्षिपति । अथवा मेघसन्ततिः घनावलिः । मे मम रुक्मिणीविरहार्तस्येति भावः । मुदे प्रीतये । स्यात् किं भवेत् किं । न भवेदेवेत्यर्थः । मेघमालायाः स्वयमेव चन्द्रादप्यत्यन्तं विरहिजनपीडयितृत्व स्वाभाव्यान्मत्कृते तिरोधानं न कुर्यादिति भावः । मुदे प्रीतये । स्यात् किं न स्यात् । व्यथाकारिणश्चन्द्रस्य तिरोधानार्थसन्निधापितस्य तस्यैव मेघस्य चन्द्रादप्यतिहृद्यत्वेन तथाविधाशंसनमेव महतेऽनर्थाय भवेदिति भावः । अत्र स्वोक्तस्यार्थस्य स्वयमाक्षेपादाक्षेपालङ्कारः । इष्टार्थोद्यमादनिष्टलाभ रूपो विषमालङ्कारः ॥ ४२ ॥
 
विधुं तुदंतं किरणैर्वियोगिनो विधुन्तुदो हन्त गिरन्विशृंखलम् ।
परोपकारप्रवणा न जिह्मगा इति प्रथां किन्नु[^1] मुधा विधास्यति ॥४३॥
 
विधुमिति - विधुन्तुद: राहुः । स्वत एव चन्द्रहिंसक इति भावः । किरणैः
करैः साधनैः । वियोगिनः विरहिजनान् । तुदन्तं पीडयन्तम् । विधुं चन्द्रम् ।
 
[^1] G. किं न.