This page has been fully proofread once and needs a second look.

द्वितीयस्सर्गः
 
१२३
 
मज्जनं सलिलनिमज्जनम् । कुतः स्यात् कथं भवेत् कदापि न भवेदित्यर्थः ।

अन्यसन्तारणस्य स्वतो मज्जनस्यासंभावितत्वादिति भावः । अत इयं मदीया
प्रार्थना न फलिप्ष्यतीति भावः । अत्र स्वेनैवाशंसितस्य प्रार्थितस्य च स्वय-
मेवाक्षेपादाक्षेपालङ्कारः । "आक्षेपः स्वयमुक्तस्य प्रतिषेधो विचारणात्"
इति लक्षणात् । श्लेषेण सङ्करश्च ॥ ४१ ॥
 

 
घनावलीयं क्षणमर्धमेव वा कठोरवृत्तिं क्षणादाकुटुम्बिनम् ।
 

पिधाय जायेत मम प्रियाय किं मुद्देऽथ वा स्यात्किमु मेघसन्ततिः ॥
 
-
 

 
४२ ॥
 
घनावलीति - इयं परिदृश्यमाना । घनावली मेघमाला । कठोरा क्रूरा

विरहिजनपीडयित्री वृत्तिः व्यापारो यस्य तादृशम् । अत्यन्ततापकारिण- मित्यर्थः ।
क्षणदया कुडुम्बिनं गृहमेधिनं निशापतिमित्यर्थ: । क्षणं क्षणकाल मात्रं
वा । अर्धमेव वा अर्धं क्षणकालं वा । पिधाय तिरोधाय । मम प्रियाय

प्रीतये, चन्द्रदर्शनजनितदुःखनिवृत्तये । तादर्थ्ये चतुर्थी । स्यात् किं भवेत्

किमु । क्षणमात्रं वा घनेन चन्द्रे तिरोहिते तावन्मात्रं वा निवृत्तदुःखो भवेय- मिति
भावः । अमुमर्थमाक्षिपति । अथवा मेघसन्ततिः नावलिः । मे मम रुक्मिणी-
विरहार्तस्येति भावः । मुदे प्रीतये । स्यात् किं भवेत् किं । न भवेदेवेत्यर्थः ।
मेघमालायाः स्वयमेव चन्द्रादप्यत्यन्तं विरहिजनपीडयितृत्व स्वाभाव्यान्मत्कृते
तिरोधानं न कुर्यादिति भावः । मुदे प्रीतये । स्यात् किं न स्यात् । व्यथाकारिण-
श्चन्द्रस्य तिरोधानार्थसन्निधापितस्य तस्यैव मेस्य चन्द्रादप्यतिहृद्यत्वेन तथाविधा-
शंसनमेव महतेऽनर्थाय भवेदिति भावः । अत्र स्वोक्तस्यार्थस्य स्वयमाक्षेपादा-
क्षेपालङ्कारः । इष्टार्थोद्यमादनिष्टलाभ रूपो विषमालङ्कारः ॥ ४२ ॥
 
विघुं

 
विधुं
तुदंतं किरणैर्वियोगिनो विधुन्तुदो हन्त गिरन्विशृंखलम् ।

परोपकारप्रवणा न जिह्मगा इति प्रथां किन्नु[^1] मुधा विधास्यति ॥
 
-
 
-
 

 
विधुमिति - विधुन्तुद: राहुः । स्वत एव चन्द्रहिंसक इति भावः । किरणैः

करैः साधनैः । वियोगिनः विरहिजनान् । तुदन्तं पीडयन्तम् । विधुं चन्द्रम् ।
 

 
[^
1] G. किं न.