2023-04-06 02:51:01 by ambuda-bot
This page has not been fully proofread.
१२२
रुक्मिणीकल्याणे सव्याख्याने
वल्लभं प्रियं अधिपतिमादिशेषमिति भावः । विभूषणं हारकेयूराङ्गदकटकाद्या-
कल्परूपम् । तथा विभ्रमतल्पं विलासपर्यकरूपं च । व्यवत्त अतनुत । यथाक्रमं
हरो भूषणं हरिस्तल्पं च व्यतानीदित्यर्थः । तदा पीडाकारिणं पवनं
वाताशनाधीशः पास्यतीत्याशयः । इतीति शेष: । तर्कये संभावयामि ।
कथमन्यथा जगदानन्दसन्दायिष्वपरिमितेषु सत्सु वस्तुषु सकलभयङ्करस्य
विषवरस्य परिग्रह इति भावः । अत्र शेषस्य हरेण भूषाकरणं हरिणा
तल्पीकरणं प्रति च गौरीश्रीविरहावस्थासंभावितमन्दानिल कर्तृकञ्यथाविचिन्तन-
महेतुरेव हेतुतयोपन्यस्तमिति हेतुत्प्रेक्षा ॥ ४० ॥
अथ चन्द्रकृतां व्यथां प्रपञ्चयति षड्भि:
समुत्तरङ्गा दिविषत्तरङ्गिणी सनीडसंचारकरं निशाकरम् ।
निमज्जयेन्नीरभरे क्षणं न किं कुतोऽथवा स्यादुडुपस्य मज्जनम् ॥४१॥
-
समिति – सम्यक् अतिशयेन उत् उन्नता: तरङ्गा ऊर्मय: यासां [यस्या:].
तादृशी । दिविषत्तरङ्गिणी स्वर्गङ्गा कर्त्री । सनीडे समीपे सम्यक् अत्यन्तं प्रतिनिश-
मिति भावः । संचारं करोतीति तादृशम् । निशाकरं चन्द्रम् । नीरभरे स्वीयसलि
लोच्चये। क्षणं क्षणमात्रं वेत्यर्थः । न निमज्जयेत् किं निमग्नं न कुर्यात् किमु । एवं तुदन्तं
चन्द्रं त्वत्समीपागतं पयसि मज्जयित्वा मारयेति स्वर्गङ्गास्माभिः प्रार्थनीया ।
इतोन्यद्व्यथानिवर्तनोपायं न पश्यामः । सा पुनर्गङ्गा मदीयां प्रार्थनां समर्थयेद्वा
न वा । मास्तु निश्शेषतया चन्द्रमारणं किन्तु यत्किंचित्समयं वा निमज्जयित्वा
तदर्शनेनास्मान् किं न सुखयति । मास्तु तावदपि । क्षणमात्रमपि न निमज्जयेत्
किम् । येन तावद्वा मुक्तदुःखो भवेयमिति भावः । अथवा तावद्वा मत्प्रार्थनाया
।
अकरणेऽपि गङ्गाया गगन एव नित्यनिवासेन चन्द्रस्य तत्रैव प्रतिनिशं सञ्चारे
च सति कूपोपकण्ठनित्यनिषण्णशिशुन्यायेन यदा कदाचित्स्वतः पतितं वा
न निमज्जयेत्किम् । तदापि वा किञ्चित्सुखी स्यां इति भावः । अमुमर्थमाक्षिपति ।
अथवा आहोस्वित् । आशंसितमिदं कदापि न भवेदिति भावः । तदेवाह --- उडुपस्य
उडूनि नक्षत्राणि पातीति तस्य चन्द्रस्य । अन्यत्र उडुपस्य प्लवस्य । उडुपं
तु प्लव: कोल : " इत्यमरः । नद्या दिसन्तरणसाधनदारुमययानपात्रस्येत्यर्थः ।