This page has been fully proofread once and needs a second look.

द्वितीयस्सर्गः
 
१२१
 
'
[^1]निरस्तचक्रप्रणयो निमेषतो हठादधिक्षिप्ततराक्षसंगतिः ।

मनोरथः शीर्यति हन्त मामक: समीरपोतेऽपि समीपमेयुषि ॥ ३९ ॥
 

 
निरस्तेति - मामकः मदीयः । मनश्चित्तमेव रथ: स्यन्दनः कर्ता ।
समीरपोते मलयपवने ईषद्वाते । समीपं सन्निकृष्टदेशम् । एयुषि प्राप्तवति सत्यपि ।

निमेषत: त्रुटिमात्रेण । निरस्तः निराकृतः चक्रे सुदर्शने प्रणय: प्रेमा चक्रायु- धा-
दानोपलालनादिश्रद्धेति भावः । येन तादृशः । अन्यत्र निरस्तचकैः रथाङ्गैः
प्रणय: संसर्ग: अक्षे योजनं यस्य तादृशः । प्रशिथिलितचक्राक्षबन्ध इति भावः ।
तथा हठात् बलात्कारेण । अधिक्षिप्ततरा अतिदूरनिरस्ता अक्षैश्चक्षुरादिभि-
रिन्द्रियैः सह सङ्गतिः संसर्गः यस्य तादृशस्सन् । आत्मा मनसा संयुज्यते
मन इन्द्रियेणेति विषयावबोधहेतुभूतचक्षुरादिसंसर्गशून्य इत्यर्थ: । बाह्यविषयज्ञान-
शून्यः केवलरुक्मिणीचिन्तननिरत इति भावः । अन्यत्र हठात् अधिक्षिप्ततरा
अक्षाणां स्यन्दनाधारदारुविशेषाणां सङ्गतिः मेलनं कूबसेपरि पीठादिसम्बन्ध
इत्यर्थ: । यस्य तादृशश्च सन् । शीर्यति शिथिलीभवति । हन्त कष्टम् ।
अत्र हरिमानसारोपितस्य चक्राक्षादिशताङ्ग सङ्गतस्य प्रकृतेऽप्यसंभावितस्पन्दनस्य
स्यन्दनस्य अस्पृशतापि वातपोतेन दृढतरबन्धोत्सादनविशरणदूरनिरसनादेश्
यो विरोधस्तस्य हरिचेतसो मलयमारुतसमागमजनितव्यथया विषयेष्वप्रवृत्त्या
निजायुधानादरेण चाभासीकरणाद्विरोधाभासो रूपकानुप्राणित इति सङ्करः ॥३९॥

 
वृषाकपायीप्रणयागसि व्यथां विचिन्त्य मन्दानिलतो वितर्कये ।

व्यत्त वातंधयवल्लभं हरो विभूषणं विभ्रमतल्पमच्युतः ॥ ४० ॥
 
1 G. निरस्तचक्रे.
 
16
 

 
वृषाकपायीति – हरः शिवः । अच्युतो विष्णुश्च । वृषाकपाय्योः
लक्ष्मीपार्वत्योः । " वृषाकपाय्यौ श्रीगौयौंर्यौ " इत्यमरः । प्रणयागसि प्रणयापराधे सति ।
यदा- कदाचित्संभाविते सतीत्यर्थ: । मन्दानिलत: मलयपवनात् । व्यथां पीडाम् ।
विचिन्त्य संभाव्य । इत्थं व्यथा संपत्स्यते इत्थंकृते निवर्तिष्यत इति उत्पत्स्य-
मानतया परिहिह्रियमाणतया च विचार्येति भावः । वातन्धयानां सर्पाणां
 

 
 
[^1] G. निरस्तचक्रे