This page has been fully proofread once and needs a second look.

१२०
 
रुक्मिणीकल्याणे सव्याख्याने
 
मित्यर्थः । विना अन्तरेण । माति किं पर्याप्तो भवति किं न मात्येवेत्यर्थः ।

परीवाहविनाभावे स्वयमेव सेतुं भित्वा बहि: परिवहत्येवेति भावः । अत्र हृदये
अमान्तीं व्यथां वाचा बहिर्व्यसर्जयदित्यस्यैवार्थस्य जलाशये अंभंसां भरः
परीवाहविधिधिं विना न मातीति पृथक्पदेन प्रतिपादनात् प्रतिवस्तू- पमालङ्कारः ।
"वाक्ययोरेकसामान्ये प्रतिवस्तूपमा मता" इति लक्षणात् । बिम्बप्रतिबिम्ब-
भावाभावात्रन्न दृष्टान्तसंभवः ॥ ३७ ॥
 

 
वियोगविश्राणितवैधुरीधुरं मनो विदन्मे मलयानिलोऽधुना ।
'

[^1]
दुनोति वेगे बहुधा धुतोऽमुना पराजितास्स्युः समयप्रतीक्षिणः ॥३८॥
 

 
वियोगेति – अमुना वक्ष्यमाणेन मदीयेन मनसा । वेगे जवे विषये । बहुधा

बहुप्रकारेण । धुतः पराभूत: । मनसः पवनादतिजवित्वादिति भावः । मलयानिलो
मलयपवनः कर्ता । अतिवेगवत्तया जगद्विख्यात इति भावः । ततश्च अधुना
सांप्रतं विरहावस्थायामित्यर्थः । मे मम । मनश्चित्तं कर्म । पूर्वमसकृत् जवे स्वपराभव-
मिति भावः [?]। वियोगेन विरहतापेन विश्राणिता वितीर्णा वैधुर्या: व्यथायाः
घूः भरः यस्मै तादृशम् । विरहज्वर- ग्लपिततया प्रहीणबलवेगं रुक्मिणीगात्रा-
दन्यत्र गन्तुमक्षमतया तत्रैव चिरात् प्रत्यवयवं परिवर्तमानमिति भावः । विदन्
जानन् सन् । इदमिदानीं हीन- सत्वमतोऽयमेवास्य निग्रहावसर इति जानन्निवेति
भावः । दुनोति पीडयति लट् । ननु पूर्वमसकृत् पराभूतस्य कथं पुनरभियोग
इत्यतोऽमुमर्थे समर् समर्थ- यति । पराजिताः केनचिद्लवता परिभूताः जना इति शेषः ।
समयं स्वविजेतुः शत्रोर्बलहाह्रासावसरं प्रतीक्षन्ति प्रतिपालयन्तीति तादृशाः । स्युः

भवेयुः । तथाविधरन्ध्रलाभे पुनरभियुज्य प्रहरेयुरेवेति भावः । अत्र मलया निलकृत
कृष्णचित्तव्यथनं प्रति मनसा पूर्वपराभूतस्य पवनस्य मनसो वियोगव्यथितत्
वः परिज्ञानं रन्ध्रलाभविधया अहेतुरेव हेतुतयोपन्यस्तमिति हेतृतूत्प्रेक्षा व्यंजकाभावात्
गम्या । ईदृशस्य चार्थस्य विशेषरूपस्य पराजिता: समयप्रतीक्षिणः स्युरिति
सामान्येन समर्थनादर्थान्तरन्यासः ॥ ३८ ॥
 

 
[^
1] G. धुनोति.