This page has been fully proofread once and needs a second look.

द्वितीयस्सर्गः.
 
११९
 
भूतमित्यर्थ: । दयाद्यष्टगुणोपेततया परद्रोहविमुखं परोपकारशीलं चेति भावः ।
आङ्गजं मदनसम्बन्धि । शरजालं बाणबृन्दं कुसुमसमूह इत्यर्थः । अनुं कृष्णम् ।
कथं किंनिमित्तम् । अबाधत अपीडयत् । बाधतेरात्मनेपदे लड्ङ् । स्वभावतः कुसु-
मत्वेनायन्तं सुकुमारतया बाधनस्य न संभवः । शोभनमनस्कत्वेषूपकारस्यैव
संभावनात् द्रोहस्तु दूरापास्त इति कथमिदं युज्यत इति भावः । अत्र पूर्वार्धे
विचित्रवीर्यसुताय चन्द्राङ्गदाय द्रुह्यतश्चन्द्रा- ङ्गदनाम्नो गन्धर्वस्येव चन्द्रस्य
कृष्णं प्रति द्रोहाचरणस्याभ्युपेयतया युक्तत्व प्रतीत्या समालङ्कारः । उत्तरार्धे
विषमालङ्कारः द्वयोः श्लेषमूलकत्वात् सङ्करः । चन्द्रकृतकृष्णद्रोहं प्रति
नामसाम्यकृताग्रहस्याहेतोर्हे तुत्ववर्णना- द्धेतूत्प्रेक्षा व्यञ्जकाभावात् गूढा । तथा
मदनशर निकरस्य सुमनस्त्वेन पर-पीडनविरोधीत्यस्य मदनसायकतया आभासी-
करणाद्विरोधाभासालङ्कारः । द्वयोः श्लेषमूलकतया संकीर्णयोः संसृष्टिरित्याहुः ॥ ३६॥
 

 
एतावता विप्रलम्भशृङ्गारस्थायिनः रतिभावस्य विरहावस्थायामालम्बना-

दिभि: परिपोषं कविप्रोढोक्त्या प्रतिपाद्य संप्रति क विनिबद्धवक्तृप्रौढोक्ति- मूलकतया
तमेवाह -
 

 
मनोगतामुन्मदमन्मथव्यथां वसुन्धरेशो [^1]वचसि न्यवीक्शित् ।

विना परीवाहविधिं जलाशये महत्तरो माति किमंभसां भरः ॥ ३७ ॥
 
-
 

 
मनोगतामिति – वसुन्धरेश: भूपतिः कृष्णः । मनोगतां मनसा केवलमनु-
मनु
भूतां । इदानीं तु दु:खपारवश्येन वागुच्चारणमन्तरा सोढुमशक्यामित्यर्थः ।
उन्मदस्य अतिशयितमदस्य मन्मथस्य मदनसम्बन्धिनीं मदनकृतामित्यर्थः
व्यथां पीडां । वचसि वाचि । न्यवीविशत् निवेशयामास । व्यथाया बलवत्त- रत्वेन
"विरमति कथनं विना न खेद : " इति कृत्वा स्वयं वाचा स्वत्र्व्यथोप- पादनमाच-
चारेत्यर्थः । उक्तार्थमुपदर्शयति – जलाशये सलिलाधारे । महत्तर : अत्यन्तातिश
यितः । सर्वतो निबद्धसेतुप्रमाणातीत इत्यर्थः । अंभंसां सलिलानां । भरः अतिशयः ।
परीवाहस्य अधिकजलोत्सर्गस्य विधिधिं विधानं । तदनुकूलकुल्यादिपरिकल्पन-

 
 
[^
1
 
1
] A. मनसि,