2023-04-06 02:51:01 by ambuda-bot
This page has not been fully proofread.
द्वितीयस्सर्गः.
११९
भूतमित्यर्थ: । दयाद्यष्टगुणोपेततया परद्रोहविमुखं परोपकारशीलं चेति भावः ।
आङ्गजं मदनसम्बन्धि । शरजालं बाणबृन्दं कुसुमसमूह इत्यर्थः । अनुं कृष्णम् ।
कथं किंनिमित्तम् । अबाधत अपीडयत् । बाधतेरात्मनेपदे लड् । स्वभावतः कुसु-
मत्वेनायन्तं सुकुमारतया बाधनस्य न संभवः । शोभनमनस्कत्वेषूपकारस्यैव
संभावनात् द्रोहस्तु दूरापास्त इति कथमिदं युज्यत इति भावः । अत्र पूर्वार्धे
विचित्रवीर्यसुताय चन्द्राङ्गदाय द्रुह्यतश्चन्द्राङ्गदनाम्नो गन्धर्वस्येव चन्द्रस्य
कृष्णं प्रति द्रोहाचरणस्याभ्युपेयतया युक्तत्वप्रतीत्या समालङ्कारः । उत्तरार्धे
विषमालङ्कारः द्वयोः श्लेषमूलकत्वात् सङ्करः । चन्द्रकृतकृष्णद्रोहं प्रति
नामसाम्यकृताग्रहस्याहेतोर्हे तुत्ववर्णनाद्धेतूत्प्रेक्षा व्यञ्जकाभावात् गूढा । तथा
मदनशर निकरस्य सुमनस्त्वेन परपीडनविरोधीत्यस्य मदनसायकतया आभासी-
करणाद्विरोधाभासालङ्कारः । द्वयोः श्लेषमूलकतया संकीर्णयोः संसृष्टिरित्याहुः ॥ ३६॥
एतावता विप्रलम्भशृङ्गारस्थायिनः रतिभावस्य विरहावस्थायामालम्बना-
दिभि: परिपोषं कविप्रोढोक्त्या प्रतिपाद्य संप्रति क विनिबद्धवक्तृप्रौढोक्तिमूलकतया
तमेवाह -
मनोगतामुन्मदमन्मथव्यथां वसुन्धरेशो वचसि न्यवीक्शित् ।
विना परीवाहविधिं जलाशये महत्तरो माति किमंभसां भरः ॥ ३७ ॥
-
मनोगतामिति – वसुन्धरेश: भूपतिः कृष्णः । मनोगतां मनसा केवल-
मनुभूतां । इदानीं तु दु:खपारवश्येन वागुच्चारणमन्तरा सोढुमशक्यामित्यर्थः ।
उन्मदस्य अतिशयितमदस्य मन्मथस्य मदनसम्बन्धिन मदनकृतामित्यर्थः
व्यथां पीडां । वचसि वाचि । न्यवीविशत् निवेशयामास । व्यथाया बलवत्तरत्वेन
"विरमति कथनं विना न खेद : " इति कृत्वा स्वयं वाचा स्वत्र्यथोपपादनमाच-
चारेत्यर्थः । उक्तार्थमुपदर्शयति – जलाशये सलिलाधारे । महत्तर : अत्यन्तातिश
यितः । सर्वतो निबद्धसेतुप्रमाणातीत इत्यर्थः । अंभंसां सलिलानां । भरः अतिशयः ।
परीवाहस्य अधिकजलोत्सर्गस्य विधि विधानं । तदनुकूलकुल्यादिपरिकल्पन-
1
1 A. मनसि,