This page has been fully proofread once and needs a second look.

रुक्मिणीकल्याणे सव्याख्याने
 
११८
 
रूपस्य विशेष्यस्य वामाक्षिस्फुरणरूपदुर्निमित्तकृतत्वेन सामान्येन समर्थ-

नादर्थान्तरन्यासः श्लेषानुप्राणितः ॥ ३४ ॥
 

 
अमुष्य मन्दं चलितेऽपि मारुते मनस्यमन्दं समभावि शंकया ।
'

[^1]
तनूभुवापि प्रतिकूलता दधे क्व राज्ञि सौख्यं प्रतिकूलतां गते ॥ ३५ ॥
 

 
अमुष्येति - मारुते पवने । मन्दं मृदु यथाभवति तथा । चलिते संचरति

सति अपि । अमुष्य कृष्णस्य । मनसि चित्ते । शङ्कया अनिष्टाभ्यागमोत्प्रे- क्षारूपया
भियेति भावः । अमन्दं अत्यन्तम् । समभावि संबभूवे । शङ्का- नामकः सात्विकभावो
बभूव । महती भीतिर्बभूवेत्यर्थः । तथा तनूभुवा पुत्रेण मदनेनापि । प्रतिकूलता
प्रत्यर्थिता । दधे जगृहे । शात्रवं प्रापद्यतेति भावः । अमुमर्थे समर्थयति । राज्ञि चन्द्रे
भूपतौ च । प्रतिकूलतां विरोधि- त्वम् । गते प्राप्ते सति । सौख्यं सुखं । क्व कुत्र ।
भवेदिति शेषः । काक्कावा न भवेदेवेत्यर्थः । राज्ञि द्विष्टे " यथा राजा तथा प्रजा
" इति सर्वप्राणिविरोधे फलति तस्य सर्वत्र दुःखमेवेति भावः । अत्र मन्दपवन-
संचरणेऽपि शङ्कायाः पुत्रेणापि द्वेषस्य व राज्ञीत्यादिसामान्येन समर्थनार्थान्त-
रन्यासः । राज्ञीति राजपदश्लेषायत्त इति सङ्करः ॥ ३५ ॥
 
""
 

 
स एष जात्या कुटिलस्सनामतादुराग्रहाद्रुह्यतु शौरये विधुः ।

कथं नु सांसिद्धिकसौमनस्यमप्यबाधताभुंमुं शरजालमाङ्गजम् ॥ ३६ ॥
 
-
 

 
स इति — जात्या जन्मना । कुटिल: वक्राकार : दुर्जनश्च । स एष विधुः

प्रतिकूलत्वेन प्रतिपादितश्चन्द्रः । "विधुः सुधांशु: " "विधुः श्रीवत्सलाञ्छन: "

इति चामरः । शौरये कृष्णाय । सनामतया तुल्याभिधानत्वेन उत्पन्नात् दुराग्रहात्
अनिमित्तोद्गतात् क्रोधात् । नामसाम्यस्य द्वेषहेतुत्वादिति भावः । द्रुह्यतु द्रोहं
करोतु । कुटिलत्वान्नामसाम्यमेव निमित्तीकृत्य द्रोहकरणं वक्रस्य नात्यन्तविरो-
धीति कथंचित्तदभ्युपेयत इति भावः । सांसिद्धिकं स्वाभाविकं सौमनस्यं
शोभनमनस्कत्वं यस्य तादृशम् । कुसुमत्वेन सुकुमारतया सकलजनानन्दैकनिदान-

 
 
 
[^
1] G. मनो.