This page has not been fully proofread.

द्वितीयस्सर्गः
 
बलवीर्याद्यसमाधेयत्वादिति भावः । अत्र विरहकालिककृष्णपराभवरूपस्य
विशेषस्य कालो हीति सामान्येन समर्थनात् अर्थान्तरन्यासः । पुरारेरित्यस्य
धनुषो दृढत्वाभिप्रायगर्भस्य अतनोरिति शस्त्रादानप्रयोगानर्हतया परनिग्रहा-
समर्थत्वाभिप्रायगर्भस्य च विशेष्यस्य वेषान्तरसंवृत इत्यभेदेनाजय्यत्वाभि
प्रायगर्भस्य भवाभिभूतादिति अल्पवीर्यत्वाभिप्रायगर्भस्य विशेषणस्य च सन्नि-
वेशात परिकराङ्कुर परिकरावप्यत्रोपकुरुत इति सङ्करः ॥
 
केचित्तु सामान्यविशेषभावमन्तरा स्वापकृष्टादपकृष्टेन स्वस्य पराजय
इत्यस्य समरन (?)
सापेक्षस्य कालकृतत्वेन समर्थनात् काव्यलिङ्गमिति वदन्ति ।
बलीयसामिति सामान्यसमर्थनस्य स एष इति विशेषे पर्यवसानस्य स्पष्टत्वेन
काव्य लिङ्गानवतार इति मन्तव्यम् ॥ ३३ ॥
 
११७
 
पुरः स्फुरत्युत्पलिनीविटे 'हरिः दधौ दुरन्तां हृदरुन्तुदां व्यथाम् ।
अदक्षिणाक्षिस्फुरणे हि तत्क्षणात् भवन्ति भव्येतरभाजनं जनाः ॥
 
""
 
पुर इति — उत्पलिनीविटे कुमुदिनीनायके चन्द्रमसीत्यर्थः । भगवतो
विष्णुरूपस्य वामाक्षिभूते इति भावः । पुर: पूर्वदिग्भागे पूर्वकाले च । भावि-
व्यथातः पूर्वक्षणे इति भावः । स्फुरति द्योतमाने प्रकम्पमाने च सति । हरिः कृष्णः ।
सूर्येन्दुलोचनो विष्णुरिति च । हृदरुन्तुदां हृदयमर्मभेदिनीं । "अरुन्तुदन्तु मर्मस्पृक्'
इत्यमरः । दुरन्तां अवसानरहितां चिरावस्थायिनीमिति भावः । व्यथां विरहार्ति ।
दधौं बभार । विरहिणां चन्द्रोदये तापोन्मेषादित्यर्थस्य सुप्रसिद्धतयास्यार्थस्य
समर्थनानपेक्षत्वेऽपि अर्थान्तरे चन्द्रप्रकम्पोत्तरकालिकं हरिव्यथोन्मेषरूपं समर्थ-
नीयं समर्थयति । हि यस्मात् । अदक्षिणस्य दक्षिणादन्यस्य वामस्येत्यर्थः ।
अक्ष्णः स्फुरणे प्रकम्पने सति जायमाने । जना: प्राणिनः । तत्क्षणात् वामाक्षि-
स्फुरणसमनन्तरमेव । भव्येतरस्य अभव्यस्य दुःखस्येत्यर्थः । भाजनं पात्रम् । भवन्ति
जायन्ते । पुंसां वामाक्षिस्पन्दनस्य सन्निहिताशुभद्योतकत्वस्य निमित्तशास्त्र -
विहितस्य सर्वानुभवसिद्धत्वात् चन्द्राख्यवामाक्षिकंपे अनुपदमेव भगवतो
व्यथावाप्तिर्युज्यत एवेति भावः । अत्र चन्द्रोदयसमनन्तरं कृष्णस्य व्यथावाप्ति
 
1. G. विभुः