This page has been fully proofread once and needs a second look.

रुक्मिणीकल्याणे सव्याख्याने
 
वार्तामिति भावः । मुधा मिथ्याभूताम्, अग्निना सिञ्चेदित्यादिवदप्रमाणी- भूतामित्यर्थः ।
निरधारयत् निश्चिकाय । निरुपसर्गपूर्वाद्धरतेर्णिजन्तात्कर्तरि लङ् । स्वपुत्रेणैव मदनेन
कृतव्यथाया दुस्सहत्वस्य स्वानुभवगोचरत्वात् पुत्रकर्तृकपराभवपितृप्रमोदयोः
भूयस्साहचर्यात् लोकनिरूढं व्याप्यव्यापक भावं स्वस्मिन् बाधितमचिन्तयदिति
भावः । हन्त कष्टम् । अहो भगवतोऽपि विरहव्यथातिशय इति भावः । अहो
पुत्रेणैव पितुर्व्यथेति च । विद्यावीर्यौ- दार्यादिना स्वतः पुत्रस्याधिकतया
तथाविधस्य पराजयस्य सुखावहत्वेऽपि शस्त्रादिना तुदनमपि कुतो न
दुःखमुत्पादयेदिति भावः । अत्र मतिर्नाम संचारीभावो व्यज्यते । " विमृश्य
युक्तिभिः शश्वदर्थनिर्धारणं मतिः । " इति लक्षणात् । वृत्त्यनुप्रासः काव्य-
लिङ्गञ्च ॥ ३२ ॥
 

 
पुरा पुरारेरपि योऽभिनद्धनुः स एष वेषान्तरसंवृतः प्रभुः ।

भवाभिभूतादतनोरपि क्षतिं बभाज कालो हि बली बलीयसाम् ॥
 
३३॥
 
पुरेति –यः कृष्णः । रामकृष्णाद्यवतार भेदेऽपि वस्तुत एकोऽपीत्यर्थः ।
पुरा रामावतारे । पुरारे: मेरुधन्वनः त्रिपुरान्तकस्यापि । धनु: चापम् । सुमेरुसार-
भूतमित्यर्थः । जनकभवनपरिपूजितमिति भावः । अभिनत् बभञ्ज । "भि
द्लृद्वैधीकरण" इति धातोः परस्मैपदे लङ् । ईश्वरेण गुणारोपणेप्य भग्न- मनेनारोप्यमाणे
भग्नमित्यनेनेश्वरादतिबलित्वं व्यज्यते । वेषान्तरेण रामवेषा द्विभिन्नेनाद्यतन-
कृष्णवेषेण अन्तरितः संवृतः मेभेदेन प्रतीयमान इत्यर्थः । स एष प्रभुः तथाविध-
बलोपेतः कृष्णरूपी विष्णुरेव । भवेन शिवेन अभिभूतात् पराजितात् । अतनोः
शरीरेणापि रहितात् मदनादपि । तेन मदनस्यात्यन्ता पकृष्टतायां महदन्तरमिति
व्यज्यते । क्षतितिं बाणाहर्तितिं मदनकृतां व्यथामिति भावः । बभाज प्राप ।
"भज सेवायाम्" इति धातोः परस्मैपदे लिट् । क्रूर- दृष्टिमात्रात् मदनभस्मीकर्तुः
महेश्वरादतिबंलिनो मदनात्पराजयः कथमित्य- तस्तत्समर्थयति — हि यस्मात् । काल:
समयविशेषः । बलीयसां महाबला- नामपि । बली अत्यन्तबलवान् । कालविशेषे
महाबलिनोऽप्यल्पकैः परिभूयन्त एवेत्यर्थः । विरहावस्थायां मदनकृततुदनस्य