This page has been fully proofread once and needs a second look.

द्वितीयस्सर्गः
 
११५
 
तो महीयान् " इति वेदरूपप्रमाणमात्रेण न पुनः प्रत्यक्षेणेत्यर्थः । निरणायि निश्चि
तः । प्रमाणान्तरानुपबृंहितश्रुतिरूपशब्दप्रमाणगोचरीकृत इत्यर्थः । असौ स कृष्ण-
इत्यर्थः । यः पुरेति पूर्वमुक्त्या असावित्यनन्तरमद्येत्यध्या- हार्यम् । अद्य रुक्मिणी-
विरहावस्थायाम् । कृशोदर्या: रुक्मिण्या : तादृशा तादृक्षेण तथाविधदेहकार्य -
श्यकारिणेत्यर्थः, अयोगेन विरहेण कर्शितः कार्श्यं प्रापितः सन् । जनैः कर्तृभिः ।
विरहावस्थामध्यक्षीकुर्वद्भिरिति भावः । दृशा चक्षुषा, चाक्षुषप्रत्यक्षेणापीत्यर्थः ।
तथाविधः अत्यन्ताणुरूप: अतिकृशतये- त्यर्थः । ददृशे दृष्टिविषयीचक्रे । "दृशिर्
प्रेक्षणे " इति धातोः कर्मणि आत्मने- पदे लिट् । आभ्यां पद्याभ्यां कार्श्यं नामावस्था
प्रतीयते । " कार्श्यं तु स्मर- सन्तापविहिता तनुता तनोः ।" इति लक्षणात् । अत्र
दृशा ददृश इति प्रत्यक्षविषयस्यैव अत्यन्ताणुत्वासंबन्धेऽपि सम्बन्धवर्णनादति-
शयोक्तिः । प्रत्यक्षप्रमाणोपोद्लित: शब्दरूपः प्रमाणालङ्कारश्च ॥ ३१ ॥
 

 
जनार्दनो निर्दयमर्दिताशयः स्वजन्मना हन्त [^1]सुगन्धिधन्वना ।

भवेत्प्रमोदाय पराजयस्सुतादिति प्रतीतिं निरधारयन्मुधा ॥ ३२ ॥
 
-
 

 
जनार्दन इति – जनार्दनः कृष्णः । जनान् पापिनः अर्दयति नरकादिषु

नियुज्य पीडयतीति वा । जनानुत्पन्नानर्दयतीत्युक्त्या उत्पादयत्यर्दयति

चेत्यर्थः । उत्पत्तिभङ्गयोरान्तरालिकतया स्थितेरपि सङ्ग्रहः । सृष्टिस्थिति-

पालनकारीति वा; जनान् पुण्यजनान् यातुधानान् ; नामैकदेशे नामग्रहणात्

निखिल राक्षसनिग्राहक इति वार्थः । यद्वा जनान् कामिनः अर्दयति मदन रूपं
सुतं रमायामुत्पाद्य तन्मुखाद्युवजनं व्यथयितेत्यर्थः । इतरव्यथार्थीथे स्वयं
पुत्रमुत्पाद्य स्वयं तेनैवमर्दित इति भवितव्यमेवेत्थमिति भावः । स्वजन्मना
निजसुतेन । सुगन्धि कुसुमं धन्व यस्य तादृशेन मदनेन । निर्दयं निरनुक्रोशं
यथा तथा । पिता पुत्र इति अनुबन्धमप्युत्सृज्येति भावः । मर्दितः दारित:
आशय: हृदयं यस्य तादृशस्सन् । सुतात् पुत्रात् । पराजयः परा- भवः । अर्थात्
पितुरिति लभ्यते । प्रमोदाय हर्षाय । न तु दुःखायेति भावः । भवेत् स्यात् ।
इति एवंरूपाम् । प्रतीतिं लोकप्रख्यातिम् । "पुत्रादिच्छेत् पराभवम् " इति लोक-

 
 
[^
1] स.