This page has been fully proofread once and needs a second look.

११४
 
रुक्मिणीकल्याणे सव्याख्याने
 
66
 
प्रतिपदं । विद्वेषपदं विरोधपात्रं । व्यधत्त अकरोत् । विपूर्वाद्दधातेरात्मने पदे
लुङ् । अत्र श्लेषमूलकतयां शत्रो: शत्रुत्वेनाध्यवसिते चन्द्रे सुहृत्वाद्य- भजन्निति
सूर्यबुद्धिकरणरूपया तच्छत्रुत्वेनाध्यवसिते कोकिलरुते च विद्वेषकरणरूपया
च स्वक्रियया परेषां "शत्रोः शत्रौ च मित्रत्वं तच्छत्रौ शत्रुतामपि। तन्मित्रे
मित्रतां कुर्वन्न कदाचन सीदति" । [इति] नीतिमार्गा- नुवर्तनरूपस्य सदर्थस्य
बोधनात् सदर्थनिबन्धना निदर्शना । " स्वस्वहेत्व- न्वयस्योक्तिः क्रिययैव तु सा
परा " इति लक्षणात् ॥ २९ ॥
 

 
विशामधीशस्य वियोगसंज्वरस्तथा ततानातनुतानवं तनौ ।

यथामुना मन्दसमीरणादपि प्रकम्पसम्पल्लघु पर्यचीयत ॥ ३० ॥
 
-
 

 
विशामिति - वियोगसंज्वर: विरहज्वरः कर्ता । विशां जनानां अधीशस्य

नायकस्य कृष्णस्य। "द्वौ विशौ वैश्यमनुजौ " इत्यमरः । तनौ देहे । तथा तावत् ।
यावत् कार्यंश्ये वक्ष्यमाणमन्दपवनस्पन्दमात्रतः प्रकम्पोत्पत्यनुकूलं भवति तावदिति
भाव: । अतनु अतिशयितं । तानवं कार्यं श्ये। ततान अतनोत् । तनोतेः कर्तरि लिट् ।
तदेवाह — अमुना कृष्णेन । विरहाति- कर्शितेनेति भावः । मन्दसमीरणात् मलय-
पवनादपि मृदुतरं वहता समीरे- णापि । प्रकम्पस्य वेपथुरूपस्य सात्विकभावस्य
संपत् अतिशयः । अन्यत्र विधूननातिशय: । लघु द्रुतम् । "लघु क्षिप्रमरन्द्रुतम् "
इत्यमरः । पर्यचीयत परिचिताभवत् । असकृत् अनुभवगोचराभवदित्यर्थः ।
विरहास्था कालिकं मन्दपवनपरिचयजनितवेपथुरूपपरिध्य[दृश्य]मानसात्विक
-
भावाध्यवसितेनात्यल्पानिलसंसर्गेऽपि वातनिबद्सूक्ष्मपटवत्कम्पनेन तदनुगुणं
कायकार्श्यमनुमीयत इति भावः । अनुमानमेवालङ्कारः ॥ ३० ॥
 

 
अणोरणीयानिति यो हरिः पुरा पुराणवाण्या निरणायि केवलम् ।

तथाविधोध्रोऽसौ ददृशे दृशा जनैः कृशोदरीतादृगयोगकर्शितः ॥ ३१ ॥
 

 
अणोरिति — यः हरिः कृष्णः परब्रह्मरूपतया श्रुतिप्रतिपादित इत्यर्थः
पुरा अद्यतनविरहावस्थात: पूर्वे केवलब्रह्मभावे इत्यर्थ: । अणोः परमाणोरपि
। ।
अणीयान् अतिक्रशीयान् । इति पुराणवाण्या केवलं श्रुतिमात्रेण । "अणोरणीयान्मह
 
-
 
.