2023-04-06 02:50:59 by ambuda-bot
This page has not been fully proofread.
द्वितीयस्सर्गः
११३
प्रकृतमर्थे दृढीकुरुत: नातनोदिति न, अतनोदेवेत्यर्थः । तथा चक्रे राष्ट्रे राज्यतन्त्रे ।
किं बहुना, सर्वप्रपञ्चेऽपीत्यर्थ: । यद्वा चक्रे निजचक्रायुधे, अन्यत्र चक्रे चक्रवाके ।
अरति अप्रीतिं । बबन्ध अकृत । "बन्ध बन्धन " इति धातोर्लिट् । अरतिन्नाम
सञ्चारीभावमापेदे इत्यर्थ: । "अरतिस्तु भवेद्वेषो हृद्येष्वपि च वस्तुषु " इति
लक्षणात् । ध्रुवं निश्चितम् । रामावतारकृतानां तारापतिनिरासादीनामिह कृष्णावता-
रेऽप्याचरणं स्वरूपाभेदात् पूर्वजन्मवासनानिर्वर्तितं किमिति भावः । अत्र रामावतारे
सीताविरहपर्याकुलं पम्पातीरगतं राममभिवीक्ष्य पम्पायां मिथुनीभूय क्रीडन्तश्चक्र-
वाका: परिजहसुः । ततः कुपितो रामः तान्वियुक्ता भवथेति शशाप ।
ततस्तैरनुनीतः तं च शापं निशामात्रविश्रान्ततया सञ्चुकोच । तत आरभ्य
चक्रवाका रात्रिमात्रे वियुक्ता दिवा च युक्ता भवन्तीतीतिहासोत्रानुसन्धेयः ।
अत्र श्लेषमूलतया चन्द्रादिनिन्दाध्यवसितवालिनिग्रहादीनामिहानुष्ठानं प्रति पूर्वजन्म-
वासनाया अहेतोर्हेतुत्वप्रतीत्या हेतूत्प्रेक्षा ॥ २८ ॥
असावरिश्रेणिकदर्थना परे विभावयत्राजनि मित्रभावनाम् ।
व्यधत्त विद्वेषपदं तु तद्विषं कुहूं मुहुर्नीतिविदां पथि स्थितः ॥२९॥
असाविति – नीतिविदां राजनीतिज्ञानां । पथि मार्गे । स्थितः नीतिशास्त्रा-
विरोधेन निखिलकार्यकारीत्यर्थः । असौ कृष्णः । अरीणां चक्राणां चक्रवाकाना-
मित्यर्थः । "कोकश्चक्रश्चकवाको रथाङ्गाह्वयनामकः " इति कोशात् रथाङ्गनाम्नां
सर्वेषां चक्रवाकवाचकत्वात् । तेषां श्रेणे: बृन्दस्य कदर्थनापरे व्यथाकारिणि ।
राजनि चन्द्रे । चन्द्रोदये चक्रवाकविरहव्यथायाः कविलोकप्रसिद्धत्वादिति भावः ।
अन्यत्र अरिश्रेणीनां शत्रुबृन्दानां कदर्थनापरे स्वप्रतिपक्षे विद्वेषिणीत्यर्थः ।
राजनि भूपतौ । मित्रभावनां सूर्यबुद्धिम् । विभावयन् प्रपञ्चयन् सन् । अन्यत्र
सुहृत्त्वबुद्धिं विभावयन् प्रख्यापयन् । द्रष्टृणां बोधयन् सन्नित्यर्थः । विरहावस्थायां
चन्द्रस्यातितापक्ररत्वादित्यर्थः । तस्य मित्रत्वेन गृहीतस्य चन्द्रस्य द्विषं शत्रुम् ।
पुनः श्लेषमूलकतया चन्द्रस्वरूपनाशकतया चन्द्रविरोधिदर्शान्तरूपतयाध्यवसित-
मित्यर्थः । कण्ठं [कुहूं] कोकिलरुतं नष्टेन्दुकलामावास्यांत्वित्यर्थः । मुहुः
1 G. असावपिश्रेणि कदर्थिनापरे,
15