This page has been fully proofread once and needs a second look.

११२
 
रुक्मिणीकल्याणे सव्याख्याने
 
प्रत्यक्षिपत् । निरुपसर्गपूर्वात् "असु क्षेपणे" इति धातोः कर्तरि लङ् ।
तथा ऋक्षाधिपति नक्षत्रनाथं चन्द्रम् । "नक्षत्रमृक्षं भं तारं " इत्यमरः
अन्यत्र ऋक्षाणां भल्लूकानां अधिपतितिं जाम्बवन्तं च निनिन्द समदूषयत्
विरहिणो मन्दपवनचन्द्रयोः तापोत्कर्षाधायकतया तयोर्निन्दाया: बाहुकार्श्येन
स्व
स्व- स्थान प्रच्युतपरित्यागस्य अरतिश्रमादिना भूषातिरस्करणस्य च संभावित- त्वेऽपि
श्लेषमूलतयाध्यवसितं हनूमन्निन्दनं अङ्गदनिरसनं जाम्बवन्निन्दनं परमस्यैव
कृष्णस्य पूर्वतनरामावतारे सीताविरहावस्थायां नासीत् तेषां सहायत्वेन स्वी-
करणात् । इह तु अध्यवसायमूलकतया हनुमन्निन्दादी- नामपि संभवात्, हृद्यवस्तु-
विद्वेषरूपा अरतिर्बलवत्तरेति भावः । तत्
तस्मात्कारणात् । विदेहकन्याविरहादपि
सीताविरहावस्थातः । विदर्भ- सुभ्रूविरहेण रुक्मिणीविरहेण । विव्यथे व्यथितो
बभूव । "व्यथ हिंसायाम्" इति धातोः दुःखार्थादात्मने पदे लिट् । अत्र समीर-
पोतगर्हणादिरूप बलवत्तरकार्यमुखेन तद्धेतुभूतविरहव्यथाया बलवत्तरत्वानुमाना-
दनुमाना- लङ्कारः, श्लेषोत्थापित इति सङ्करः ॥ २७ ॥
 
2
 

 
निरास तारापतिमेष नो मुदभवाञ्जनानन्दनकेलिषु व्यधात् ।

बबन्ध चक्रेऽप्यरतिं तदा ध्रुवं रघूद्वहीभावजवासनावशात् ॥ २८ ॥
 
-
 

 
निरासेति ~- एषः कृष्णः । रामकृष्णादिरूपावतार भेदेऽपि वस्तुगत्या
सर्वत्रै- करूप इति भावः । तदा रुक्मिणीविरहावस्थायामित्यर्थः । रघूद्वहीभावे

रामत्वे रामात्मनावस्थितिसमय इति भावः ; जायत इति तादृश्या: वासनाया:

संस्कारस्य वशात् अधीनतया उद्बोधादिति भावः । तारापतितिं चन्द्रं वालिनं च ।
निरास निराचकार अधिचिक्षेप जघान च । तथा जनान् प्राणिनः आनन्दयन्ति
हर्षयन्तीति तादृशीषु केळिषु उद्यानविहृतिषु नवां नवनवो- द्भुताम् । मुदं प्रीतिम् । न
व्यधात् नाकरोत् । विपूर्वाद्दधातेर्लङ् । अति- रमणीयतया नयनासेचनकेष्वपि प्रीति
तिं नाभजदिति भावः । अन्यत्र अञ्जनानन्दनस्य अञ्जनाप्रसूनो: हनुमतः केळिषु
विहृतिषु अक्लेशकृतेषु समुद्रतरणसीतासमाश्वासनवनभंजनरक्षोनिधनादिव्या-
पारेष्वित्यर्थः । मुदं वा हर्षे च, वाकारश्चकारार्थः । नो न व्यधात् । द्वौंवौ नञौ