This page has been fully proofread once and needs a second look.

द्वितीयस्सर्गः
 
धारणस्य क्षेमसाधनप्रतिपादनात् शुकवाक्यस्य शुभोत्तरत्वसंभवात् । अन्यत्र शुभं
श्रेयः ब्रह्मज्ञानलक्षणं उत्तरं समनन्तरभावि यस्या इति शुभोत्तरा तादृशी उक्तिर्यस्य ।
तादृशं शुकं[क] महर्षिप्रवर्तितभागवतश्रवणेन ब्रह्म- ज्ञानोदयादिति भावः । शुकं कीरं
व्याससूनुं मुनिं च । उपैक्षत, उपेक्षा- विषयीचकार निनिन्देति भावः ।
उपपूर्वादवज्ञार्थात् " ईक्ष दर्शने " इति धातोरात्मनेपदे लङ् । तथा पुण्डरीके कमले
पुण्डरीकनामनि भगवद्भक्ते महर्षोषौ । नर्म क्रीडां प्रीतिमिति यावत् । न निर्ममे न
चकार । निपूर्वात् [माङ:] कर्तरि लिट् । कमलमेघादीन मुद्दीपनविभावतया विर-
होद्रेककारि- तया तद्दर्शनश्रवणादिना हरिः व्यथितोऽभूदित्यर्थः । नारदस्य शुकस्य

पुण्डरीकारख्यमहर्षेश्च परमभागवतत्वेन तेष्वप्रीतिनिन्दोपेक्षाकरणं कथं, कथं
वा सर्वेन्द्रियाह्लादकेषु मेघादिष्वप्रीतिरिति अमुमर्थे समर्थयति । योगिनः
विरहिणः अन्यत्र योगिनः परिशीलितराजयोगहठयोगा आत्मविदः । प्रिये दर्शनी-
येऽपि वस्तुतो रमणीयेऽपीत्यर्थ: । प्रीतिं सुखम् । नोशन्ति न प्राप्नुवन्ति ।
संभोगशृङ्गारे यानि यानि सुखातिशयाधायकानि भवन्ति सर्वा- ण्यपि तानि
प्रियामेलनाभावे विरहव्यथाया एव पोषकाणि भवन्तीति
सुव्यक्तमित्यर्थः ।
अन्यत्र प्रियेऽपि इन्द्रियाह्लादने विषये सुहृद्यपि । प्रीतिं विशेषाभिमानं उत्कण्ठां
वा पक्षपातं वा । नोशन्ति न प्राप्नुवन्ति । जितेन्द्रि- याणां अरिमित्रोदासीन-
त्वादिभेदमन्तरा सर्वत्र समदृष्टीनां निर्ममानां निरीहाणां निर्द्वन्द्वानां परमयोगिनां
कुत्रापि विशेषाभावेन सुखदुःखयोरनु- त्पादादिति भावः । अत्र विशेषरूपाया:
मेघाद्यप्रीतेः नारदाद्यप्रीतेश्च प्रियेऽ- पीत्यादि सामान्येन समर्थनादर्थान्तरन्यासः
श्लेषानुप्राणित इति
सङ्करः ॥ २६ ॥
 

 
समीरपोतं समर्हताङ्गदं निरास्थदृक्षाधिपतिं निनिन्द यत् ।

विदेहकन्याविरहादपि प्रभुर्विदर्भसुभ्रूविरहेण विव्यथे ॥ २७ ॥
 

 
समीरेति – प्रभुः श्रीकृष्णः । यत् यस्मात्कारणात् । समीरपोतं

मन्दमारुतं वायुसुतं हनूमन्तं च । " पोतः पाकोऽर्भको डिम्भ: "
इत्यमरः । समगर्हत
 
अभ्यदूषयत् । "गई कुत्सायाम् " इति धातो-
रात्मनेपदे लङ् । तथा अङ्गदं केयूरं वालिसूनुं च । निरास्थत्