This page has been fully proofread once and needs a second look.

रुक्मिणीकल्याणे व्याख्याने
 
सर्व
र्वेष्वपीन्द्रियेष्विति भावः । अखर्वेण अनल्पेन निर्वेदेन विषयानुत्सेकेन कृता
संपन्ना अभिव्यञ्जितेति यावत् । आर्तीनां व्यथानां पूर्तिः पौष्कल्यं येषां

तादृशेषु सत्सु, कृष्णस्य चक्षुरादिषु निरुत्साहतया विषयविमुखेषु सत्स्विति भावः ।
श्रुतिः श्रोत्रम् । हरेः श्रवणेन्द्रियमेकमेवेत्यर्थः । अस्याः रुक्मिण्याः । कथया चरितेन,
चरितश्रवणेनेति भावः । असुख्यत् सुखमभजत् । रुक्मिणी विरहपर्याकुलतया
सकलविषयविमुखोऽपि रुक्मिणीचरितश्रवणेन किञ्चिद्वि रहव्यथाविनोदनमन्वभव-
दिति भावः । अमुमर्थं समर्थयति- कुटिल: वक्रः आत्मा स्वरूपं आकार: स्वभावश्च
येषां तादृशानाम् । व्यवस्था मर्यादा नीति मार्गानुवर्तनम् । कुतः कथं भवेत्, न
भवेदेवेत्यर्थः । तथा च श्रोत्रस्य शष्कु- लीवत् वक्रतया अव्यवस्थितत्वेन स्वसदृशेषु
खिन्नेष्वपि श्रुतेः सुखानुभवो युज्यत एवेयर्थः । अत्र रुक्मिणीविरहविह्वलस्य
कृष्णस्य श्रुतौ सदृशानी- न्द्रियाण्यप्रहाय स्वयमेव सुखानुभवस्यायुक्तत्वमुद्भाव्य
कुतो ब्व्यवस्थेति सामान्येन समर्थनादर्थान्तरन्यासः श्लेषानुप्राणित इति सङ्करः ।
अत्र विप्रलम्भशृङ्गारसंभावितासु दशावस्थासु चक्षुः प्रीतिरिति प्रथमावस्थायामुप-

लक्षणतया श्रवःप्रीत्यादीनामप्यनुप्रविष्टत्वावश्यंभावेन प्रकृते रुक्मिण्या : साक्षाद्
दर्शनाभावेन तत्प्रतिच्छन्दकरणस्याप्यसंभवेऽपि तदुपलक्षिता श्रवः प्रीतिरिह
प्रतिपादितेति प्रथमावस्था प्रतिपादिता भवति ॥ २५ ॥
 
११०
 

 
अनारतं हन्त निनिन्द नारदं शुभोत्तरोक्तिं शुकमप्युपैक्षत ।

न पुण्डरीकेऽपि स नर्म निर्ममे प्रियेऽपि[^1] न प्रीतिमुशन्ति योगिनः[^2]
 
२६॥
 
अनारतमिति -सः कृष्णः । अनारतं सन्ततम् । नारदं जलदम् ।
"आपो नारा इति प्रोक्ता आपो वै नरसूनवः" इति स्मृतेः । ब्रह्मसूनुं देवर्षिषिं च ।

निनिन्द व्यगर्हयत्, मेघस्य विरहोद्रेककारित्वादिति भावः । तथा शुभेन पूर्वाचरित-
पुण्येन उत्तरा अधिका स्वेतरविहगदुरवगमा उक्तिः चतुरभाषणं यस्य तादृशम् । यद्वा
शुभा मङ्गळकारिणी वाक् उक्तिः यस्य । "गृहे पारावता धार्या: शारिका वै
शुकास्तथा । वनन्ति धारिता नित्यं भूतबाधां गृहस्य वै ॥" इति स्मृत्या
 
66
 

 
 
 
[^
1] G. प्रियेषु.
 
9

 
[^2]
G. प्रीतिमयन्त्ययोगिनः