This page has been fully proofread once and needs a second look.

द्वितीयस्सर्गः
 
'
[^1]अनर्घजङ्घाघिधिगतिं ' [^2]वधूमणेरमन्यतोच्चैर्जयकाहलीगतिम् ।

पदद्वयप्राप्तिमपि क्रमोदितामुदारपझोद्मोपगतिं तदाशयः ॥ २४ ॥
 
१०९
 
66
 

 
अनर्धेघेति – तस्य कृष्णस्य आशयः छन्दः । वधूमणे: रुक्मिण्याः
अनर्योः अमूल्ययोः लोकोत्तरयोरित्यर्थः । जङ्घयोः प्रसृतयो: गुल्फजान्वन्त-
रालावय- वयोरित्यर्थः । " जङ्घा तु प्रसृता " इत्यमरः । अधिगतिं प्राप्तिम् । उच्चैः
उत्कृष्टां जयकाहल्यो: विजयसूचकबिरुदरूपककाहलीवाद्यद्वयस्य गति अधिगतिं
प्राप्तितिं बिरुदावाप्तितुल्य मिति भावः । तथा क्रमेण पौर्वापर्येण उदितां प्रवृत्ताम् ।
पदद्वयस्य चरणद्वन्द्वस्य प्रकरणाद्रुक्मिण्या इत्यर्थ: । प्राप्तिमपि लाभमपि । उदारयोः
प्रौढयोः पद्मयोः कमलयोः उपगतितिं प्राप्तिम् । अन्यत्र पदद्वयस्य चरणद्वयप्रमित-
भूभागमात्रस्य लाभमपि उदारस्य गम्भीरस्य अपरिक्षीणस्येत्यर्थः । पद्मस्य
पद्माख्यनिधेः प्राप्तिमि- त्यर्थः । अमन्यत मेने । "मनु अवबोधने " इति धातो:
आत्मनेपदे लङ् । जङ्घयोर्द्वयं काहलीतुल्यतया चरणद्वितयमपि कमलतुल्यतया च
मेने स्वस्य तत्प्राप्तिं च अतिशयितबिरुदलाभवत् निधिलाभवच्च मेने इति भावः ।

श्लेषालङ्कारः ॥ २४ ॥
 

 
समानशीलेषु ' [^3]समग्रमिन्द्रियेष्वखर्व निर्वेदकृतार्तिपूर्तिषु ।

असुख्यदस्याः कथया हरे: श्रुतिः कुतो व्यवस्था कुटिलात्मनां भवेत् ॥
 

 
समानेति –– अथ कृष्णस्य रुक्मिणीगुणाश्रय समुद्भूतस्य तद्विषयकाभिलाष-
जविप्रलंम्भशृङ्गारस्थायिनो रतिभावस्य विभावानुभावसात्विकसञ्चारिभाव-
मुल्लासाद्रसभावापत्तये सर्गद्वितीयपद्यमारभ्यालम्बनविभावरूप- रुक्मिणीतदङ्गोप-
वर्णनमारचय्य सांप्रतं तदुद्दीपनविभावान् प्रपञ्चयति पञ्चभि: । हरेः कृष्णस्य
समानं सदृशं शीलं चरित्रं सुखदुःखादिकं येषां तादृशेषु । इन्द्रियेषु चक्षुरादिषु ।
लोके कस्मिंश्चित्सन्तुष्टे तदिन्द्रियाण्यपि प्रसन्नानि भवन्ति तस्मिन् दुःखिते
तु तान्यपि कलुषाणि भवन्तीति नियतत्वादिति भावः । समग्रं निश्शेषं,
 

 
 
[^1] G. अनर्घजङ्घातिगतिं.
[^
2] G. वधूमणेरगाहतोच्चैः
 
1 G. अनर्घजङ्घातिगतिं.
 

[^
3] A1 and G. समक्षम् .