This page has been fully proofread once and needs a second look.

१०८
 
रुक्मिणीकल्याणे सव्याख्याने
 
इत्यमरः । स्थितितिं निवासम् । विधत्ते तनुते । अनुशयेन संशयेन सुचिरपरि- चिते
निखिलशत्रुवर्गनिग्रहसाधने च मयि नितम्बचक्रस्मृतिमात्रेणैवैवमुपेक्षा- कारी कृष्णः
साक्षान्नितम्बचक्रस्यैव लाभे किं वा न कुर्यात् । अत इदानी- मेवैनं त्यक्ष्याम्याहो द्रक्ष्यामि
किञ्चित्कालमिति सन्देहेनेत्यर्थः । स्थितितिं अवस्थानं करोति । अतः चक्रायुधस्य
ससन्देहावस्थानेन कृष्णोपेक्षा तद्धेतुतया रुक्मिणीनितम्बचक्रस्मृतिश्च निगीर्यत
इति भावः । अत्र चक्रस्य हरिकरावस्थाने श्लेषमूलकतयाध्यवसितेन ससन्देहा-
वस्थानेन कार्येण तद्धेतुभूतं कृष्णकृतं चक्रोपेक्षणमनुमीयत इत्यनुमानालङ्कारः ॥
वस्तुत- श्चक्रानादरप्रतीत्या अरतिर्नाम विप्रलम्भावस्था व्यज्यते । "अरतिस्तु

भवेद्द्द्वेषो हृद्येष्वपि च वस्तुषु " इति लक्षणात् ॥ २२ ॥
 

 
अवाप्य ' [^1]काञ्चीस्थलमङ्गनामणे: समेत्य ' [^2]मुक्तावलिभिस्सदा चिरम् ।

अथोरुरम्भापरिरम्भसंभ्रमस्पृहामहो भूमिभृदाशयो दधौ ॥ २३ ॥
 
-
 

 
अवाप्येति – भूमिभृतः कृष्णस्य आशयः छन्द: पुल्लिंङ्गात् कश्चि
त्पुमानिति च व्यज्यते । अङ्गनामणे: रुक्मिण्या: । काञ्चीस्थलं जघनम् । काञ्चीति

प्रसिद्धं पुण्यं मुक्तिक्षेत्रं च । अवाप्य प्राप्य । मुक्तावलिभि: मेखलानिबद्ध- मौक्तिक-
पङ्क्तिभिः । मुक्तानां जीवन्मुक्तानां ब्रह्मज्ञानिनां श्रेणिमिश्च । चिरं बहुकालम् । सदा
सन्ततं अविच्छेदेनेति यावत् । समेत्य । अथ अनन्तरम् । ऊरुरम्भयोः रम्भास-
दृक्षयोरूर्वोः परिरम्भस्य परिष्वङ्गस्य संभ्रमे त्वरया स्पृहां वाञ्छां, उर्वीवीं बलीयसीं
रम्भाख्यदेवयोषितः परिष्वङ्गे आलिङ्गन विलासे स्पृहां इच्छां रम्भासंभोगवाञ्छा-
मित्यर्थः । दधौ अबिभ्रत् । दधाते: लिट् । अहो अद्भुतमित्यर्थः । मेखलामौक्तिक-
जालपरिष्कृतरुक्मिणी नितम्बजघनादिपरिचिन्तनानन्तरं तस्या ऊरू पर्यचिन्त-
यदिति भावः । काञ्चीनामक पुण्यक्षेत्रमवाप्य तत्रैव जीवन्मुक्तैः ब्रह्मविद्भिः संसर्ग
च कृत्वा नश्वरं रम्भासङ्गादिविषयामिषमाचकाङ्क्ष इति महदाश्चर्यमिति भावः ।

मुक्तिक्षेत्रे मुक्तैः सह संसृज्यापि रम्भापरिष्वङ्गमैच्छदिति विरोधस्य सक्थ्याश्लेष
परतयाभासीकरणात् विरोधाभासालङ्कारः ॥ २३ ॥
 

 
[^1]
G. काञ्चीपद.
 

 
[^
2] G. मुक्तावलिभिश्च सादरम्.