This page has not been fully proofread.

१०४
 
रुक्मिणीकल्याणे सव्याख्याने
 
राजश्रेष्ठः कृष्णः, अन्यत्र राजहंसः लोहितनयनवदनहंसविशेष:, "राजहंसास्तु
ते चञ्चुचरणैहितैस्सिता: " इत्यमरः । "हंसास्तु श्वेतच्छदोत्तमा: "
इति वैजयन्ती। सहसैव अविलम्बितमेव स्तनपरिचिन्तनमेघाक्रमणसमनन्तर्-
मेवेत्यर्थः । मानसे चेतसि । समेधितः संवृद्ध: औत्सुक्यभरः उत्कण्ठाति-
शयो यस्य तादृशः, अन्यत्र मानसे मानसाख्ये सरसि गन्तव्यदेशे विषये
समेधितौत्सुक्यभरः अभिवृद्धोत्कण्ठाभरः । अभवत्तरां समभवत् । भवतेः कर्तरि
लङि अतिशयार्थतरप्प्रत्यये "किमेत्तिङव्यय" इति तरबन्तादांप्रत्यये अभवत्तरां
मानसपदस्य चेतःपरत्वे मानसपदोत्तरसप्तम्या अधिकरणत्वार्थकत्वं सरः परत्वे
गम्यतया विषयत्वार्थकमिति भेदोऽवगन्तव्यः । अत्र भगवद्वृत्तान्ते वर्ण्यमाने
श्लेषमहिम्ना अप्रकृतहंसवृत्तान्तप्रतीत्या प्रकृताप्रकृतोभयश्लेष: ध्वनिरित्यप्याहुः॥१६॥
 
W
 
८८
 
नतभ्रुवोऽस्या 'नवरोमराजिकां नयत्यमुष्मिन्नलिनेक्षणे मनः ।
कृपामपास्याशु कृपाणवल्लरीं रयेण पाणौ रतिजानिरादधे ॥ १७ ॥
 
नतेति – अमुष्मिन्नलिनेक्षणे अस्मिन् कमलाक्षे कृष्णे । अस्या नतभ्रुवः
अमुष्या रुक्मिण्या: । नवरोमराजिकां नवोद्गतां रोमावलिं प्रधानकर्म । मनः चित्तं
स्वकीयं हृदयं अप्रधानकर्म । नयति प्रापयति सति । "णीञ् प्रापणे " इति
द्विकर्मकाद्धातोर्लट: शतृप्रत्यय: । रोमावलीमनुचिन्तितवतीत्यर्थः । रोमराजिरूप-
माशंसनीयं वस्तु स्वयमपहृत्यानन्यवेद्ये मनसि निवेशितवति सतीति व्यज्यते ।
रतिजानिः मदनः, मनस्येव नित्यनिवासशील इति भावः । कृपां दयाम् । अपास्य
परित्यज्य । पिता पुत्रत्वकृत मनुबन्धमप्यविचिन्त्येति भावः । कृपाणवल्लरीं
खड्गलताम् । पाणौ करे। रयेण तरसा । आदधे बभार । खगेनासकृत् प्रजहारेत्यर्थः ।
रोमावलीसंस्मरणक्षण एव निरतिशयमदनव्यथाकुलितो हरिरभवदिति परमार्थः ।
मदनस्य सकलजगन्नियन्त्रतया कस्यचिद्वित्ते केनचिदपहृत्य गोपितेऽपि तदपहर्तृ-
शिक्षणस्यावश्यकतया अपहृतद्रव्यस्य रोमराजिरूपस्य स्वावासे मनस्येवावस्थाप-
नेन तद्विषये साक्षाद्दष्टृपुरुषान्तरगवेषणप्रयासं विनैव स्वयमेव परिज्ञाय तदनुगुणं
खड्गच्छेदनरूपदण्डमनुपदमधात् किमिति भावः । यद्वा मुषितद्रव्यस्य
1 G. नवरोमराजिकं,