This page has been fully proofread once and needs a second look.

द्वितीयस्सर्गः
 
१०३
 
जनगोपनावसर इति भावः । धराधरं गोवर्धनाख्यं शैलम् । स्वकरोदरे निजपाणितले ।
दधार बभार । उदर इत्युक्त्या एकस्य करस्य सर्वोशव्या- पनानपेक्षा, ततश्च भगवतः
पर्वतस्य सप्ताष्टदिवस निरन्तरवहनेऽपि भगव- च्छ्रमलेशाभावः तेन च महासत्त्ववत्त्वं
च व्यज्यते । सोऽयं तथा दृष्टशक्ति- रपि हरिः । तदा रुक्मिणीविरहावस्थायाम् । पद्मदृश:
रुक्मिण्याः। पयोधरं स्तनम् । स्मरन्नपि संचिन्तयन् सन्नेवेत्यर्थः । श्रमेण आयासेन
उत्तरङ्गः अभिवृद्धः अतिदीर्धीघीभूत इति भावः । श्वसितानिलः निःश्वासमारुतः यस्य

तादृशः अभवत् आसीत् । दुस्सहविरहव्यथाकृतदीर्घनिःश्वासग्लपितोऽ- भूदित्यर्थः ।
करतलैकदेशमात्रेण गुरुतरगिरिवरचिरधारणेऽप्यसंभावित श्रमलेशस्यापि भगवतो
रुक्मिणीस्तनभारचिन्तनमात्रादेव महानायास इति महदिदमाश्चर्यमिति भावः । तेन
बलापचयरूपा ग्लानिर्नाम सञ्चारीभावो व्यज्यते । तदुक्तम् -- "ग्लानिर्बलस्या-
पचयो वैवर्ण्यरतिकारणम् " ॥ इति ॥
 

 
यद्वा पूर्वधृतगोवर्धनाचलस्य सुखसन्धार्यत्वेऽपि ततोऽप्यत्यन्तगुरुतया

चिन्तनमात्रादेव यदायासजनकं स्तनमिति गोवर्धनात् रुक्णिीस्तनयुगे विशेष-
प्रतीत्या व्यतिरेको व्यज्यते । विरहातिशयसमर्थितस्य पर्वतवहनेऽप्य श्रमः
स्तनस्मरणेऽप्यतिश्रम इति विरोधाभासः । उक्तव्यतिरेक विरोधयोः कस्मिन्
कविसंरम्भ इति सन्देहात्स व्यतिरेकपक्षे स्तनरूप गुरुतरवहनं विनैव तत्स्मृति-
मात्रेण श्रमवर्णनाच्चपलातिशयोक्तिः । विरोधे तु विरहातिशयप्रतीतिरेवेति
मन्तव्यम् ॥ १५॥
 

 
विदर्भपाठीनविलोचनामणेः पयोधरेऽथ स्मृतिपद्धतिस्पृशि ।

स राजहंसस्सहसैव मानसे समेधितौत्सुक्यभरोऽभवत्तराम् ॥ १६ ॥

 
विदर्भेति—विदर्भस्य विदर्भदेशाधीशस्य भीष्मनाम्नो राज्ञ इत्यर्थः । पाठीनौ

मत्स्यविशेषाविव विलोचने नयने यासां तादृशीनां मणे : स्त्रीरत्नभूतायाः

रुक्मिण्याः । पयोधरे स्तने पयोधरे जलधरे च । स्मृतिपद्धतितिं स्मरण- गोचरीभावं
स्पृशति श्रयतीति तादृशि सति स्मर्यमाणे सतीत्यर्थः । कृष्णस्य रुक्मिणीस्तन-
चिन्तायां हंसस्य घनचिन्तायां च सत्यामिति भाव:[^1] । सः राजहंसः
 

 
 
[^
1] The original has the following in addition within brackets :
 

[विस्मृतार्थस्मारकचिन्तावसरे सर्वत्र मुखोन्नमनस्यैव भूयो दृष्टचरत्वेन स्मृतेरूर्ध्वदेशादापत -
नाध्यासात् स्मृतिपद्धतिं स्मरणापातमार्गे गगनान्तरालं स्मृशति आक्रामति सति]