This page has been fully proofread once and needs a second look.

रुक्मिणीकल्याणे सव्याख्याने
 
'तद्
[^1]तदग्रहारैकतलं तलोदरीमणेस्समाक्रामदुरोजमण्डलम् ।

करग्रहं कर्तुमियेष तन्मनो [^2]व्यवस्थितिः कामवशंवदेषु का ॥ १४ ॥
 
१०२
 

 
तदिति – तस्य कृष्णस्य मनश्चित्तं कर्तृ । तस्याः रुक्मिण्या: अग्रहारस्य
हार श्रेष्ठस्य " परार्ध्याग्रप्राग्रसर : " इत्यमरः । एकतलं मुख्यस्थानभूतं वक्ष इत्यर्थः
पक्षे अग्रहारस्य ग्रामस्य ब्राह्मणगृहवाटिकाया इति भावः । एकतलं एकदेशम् ।
समाक्रामत् व्याप्नोति स्म । समाङ्पूर्वात् " क्रमु पादविक्षेपे" इति धातोर्लङ् ।
अचिन्तयदिति भावः । पक्षे स्ववशीचकारेति भावः । ततः तलोदरीणां शातोदरीणां
मणे: श्रेष्ठायाः रुक्मिण्याः । उरोजमण्डलं स्तनमण्डलम् । पक्षे उरोजाख्यं राष्ट्रमित्यर्थ ।
"मण्डलं चक्रवालकम् " इत्यमरः । समाक्रामदित्यनुषज्यते । ततश्च कराभ्यां ग्रहं
संग्रहणं मर्दनमिति यावत् । अर्थात् स्तनमण्डलस्येति लभ्यते । रुक्मिण्या एव
पाणिग्रहणमिति च लभ्यते । पक्षे करस्य राजदेयबलिरूपधनस्य ग्रहं परिग्रहम् ।
कर्तुं रचयितुम् । स्वसमाक्रान्ताद्राज्यात् बलिमुखेन वित्तमपहर्तुमिति भावः ।

इयेष ऐच्छत् । रुक्मिणी पाणिग्रहणतत्संभोगादिगोचरो मनोरथोऽभवदिति भावः ।
तदुक्तम्- ." अन्नं वासो वसु महीत्युत्तरोत्तरकाङ्क्षिणः । अशावशात् प्रवर्तन्ते
लोभो लोभस्य कारणम् ॥ अदर्शने दर्शनेच्छा दृष्टे संभाषणे मतिः । भाषिते
भोगबुद्धिः स्यात् तन्नैरन्तर्यधीस्ततः ॥" इति ॥ अमुमर्थे सामान्येन समर्थयति---
कामवशंवदेषु कामपरतन्त्रेषु कामिनीकामुकेष्विति भावः । पक्षे लोभाविष्टे
व्यवस्थितिः व्यवस्था, इदमाशंसनीयमितोऽधिकं नापेक्ष्य- मिति निर्णयः । पक्षे
लब्धमात्रेण परितुष्टि: अर्थलाभेश्वलंबुद्धिश्च । का कीदृशी, न कापि भवेदित्यर्थः ।
कामुकस्य मनोरथो लुब्धस्य राज्ञो देशा- क्रमणकरग्रहणादिकं च युज्यत एवेति
भावः । श्लेषरूपकाभ्यां उत्थापितसमासोक्तिगर्भोऽर्थान्तरन्यासालङ्कारः ॥ १४ ॥
 
.
 

 
धराधरं यः स्त्रकरोदरे पुरा दधार सोऽयं दनुजान्तकस्तदा ।

पयोधरं पद्मदृशः '[^3]स्मरन्नपि श्रमोत्तरङ्गश्वसितानिलोऽभवत् ॥ १५ ॥

 
 
धराधरमिति – यः दनुजान्तकः शकटाद्यसुरसंहारी कृष्ण: । पुरा बाल-

भाव एव, निजपूजोल्लङ्घनकुपितपुरुहूतसमादिष्टवलाहकाभिवृष्टिव्यथित गोकुलगोप-

 
 
[^
1] G. तदग्रहारैकततम्.

[^
2] G. व्यवस्थितम्.
 

[^
3
 
] G. स्तरन्नपि