This page has been fully proofread once and needs a second look.

रुक्मिणीकल्याणे सव्याख्याने
 
तदुक्तिनिःश्वासविलोचनाननस्मृतिक्षणेषु क्रमशस्तमाक्षिपन् ।

पिको मरुन्मारशरो निशाकरो विरोधिचिन्तां विषहेत को नु वा ॥
 
००
 
१॥
 
तदिति —–— तस्याः रुक्मिण्या : उक्तिश्च निःश्वासश्च विलोचनं च आननं च

तेषां वचनश्वासलोचनमुखानां स्मृतिक्षणेषु सञ्चिन्तनसमयेषु । बहुवचनात् यदा यदा
स्मरणं तदा तदेति नियतत्वं प्रतीयते । तेन च वक्ष्यमाणविरोधि- चिन्तनकृत-
व्यथनरूपार्थस्य व्याप्तिविशिष्टतया दुरपह्नवत्वं व्यज्यते । पिकः कोकिल:
उक्तिप्रतिद्वन्द्वीति भावः । मरुत् मलयानिलः निःश्वासप्रतिभट इति भावः । मारशर :
मदनसायक: विलोचनप्रतिपक्ष इति भावः । निशाकर: चन्द्र: मुखपरिपन्थीति
भावः । इमे इति शेषः । क्रमशः यथाक्रमं, उक्तिस्मरणसमये पिकः निश्वासस्मृतौ
मरुदिति उत्पलाख्यक्रमेणेत्यर्थः । तं कृष्णम् । आक्षिपन् अधून्वन् अपीडयन्निति
भावः । अमुमर्थे सामान्येन समर्थयति । को नु वा विरोधिनः द्विषतः चिन्तां
स्मरणं तदीयगुणानु- मोदनमिति भावः । विषहेत मर्षयेत् । न कोऽपि सहेतेत्यर्थः ।
विपूर्वात् सहतेरात्मनेपदे लिङ् । उक्त्यादिविचिन्तनावसरेषु पिकादिभिरुद्दीपितेन

विरहज्वरेण नितान्तपीडितो हरिरासीदिति भावः । अत्र पिकादिकृत कृष्णव्यथनं
प्रति कृष्णकृतं स्वस्वशात्रव गुणानुमोदनमहेतुरेव हेतुतयोपन्य- स्तमिति हेतुतूत्प्रेक्षा
व्यञ्जकाभावात् गूढा ;ढाः सा च सामान्येन विशेषसमर्थन रूपार्थान्तरन्यासाङ्गमिति
तेन, यथासंख्येन च संसृष्टिः ॥ ११ ॥
 

 
तदाशयो लोलदृशस्ततोऽधरप्रवालशय्यापरिवृत्तिमादधत्' ।
[^1] ।
यथेष्टमाश्लिष्य च हारयष्टिकामसोढगाढं स्मरतापगाढताम् ॥ १२ ॥
 

 
तदाशयेति – तस्य कृष्णस्य आशय: चित्तं, पुल्लिङ्गात् पुमानिति व्यज्यते ।

लोलदृश: चञ्चलाक्ष्या रुक्मिण्या इत्यर्थ: । अंधरे दन्तच्छदे एव प्रवाल- शय्यायां
पल्लवतल्पे परिवृत्तिं पार्श्वविनिमयं परिल्लुठनमिति यावत् । आदधत् कुर्वन् सन्,
अधरमभिध्यायन्निति भावः । ततः अनन्तरम् । प्रवाल शय्या परिलुठनेन सन्तापानप-
गमादिति भावः । हारयष्टिकां मुक्तास्रजं, अर्थात् रुक्मिणीकर्णा[कण्ठा]वसि[स]क्त-
मिति भावः । स्त्रीलिङ्गात् स्त्रिय- मित्यपि व्यज्यते । यथेष्टं यावदिच्छम् । गाढं दृढं

 
 
[^
1] G. परिवृद्धिमादधत्.