This page has been fully proofread once and needs a second look.

द्वितीयस्सर्गः
 
९९
 
ननु महाकुलोद्भूतत्वमायुधस्य शत्रुविजये न नियामकं प्रत्युत कुलोद्भूतस्य
- स्य कारुण्याश्रयतया हिंसापेतत्वं पुनः प्रकृतविरुद्धमित्यतः कारणान्तरेण समर्थयति ।
मुख्यं मुखे वदने भवं मुख्यं प्रधानं च, प्रतिपक्षपक्षविक्षेपविच- क्षणमिति भावः ।
करणं चाक्षुषप्रमाकरणं साधकतमं च । विना अन्तरा तदपहायेत्यर्थः । महतां
महाबलानां जयः पराजयः । न नहीत्यर्थः । मुख्य साधनाभावे तत्साध्यकार्यमपि न
सिध्येदेवेति भावः । नयनेन्दीवरस्य मुखो- द्भूतत्वेन श्लेषेण प्रधानरूपत्वेन
तदङ्गीकारो नाभिकमलस्यातथात्वेन तत्परित्यागश्च युज्यत एवेति भावः । अत्र
मदनकृते रुक्मिणीनयनोत्पल- कृष्णनाभिकमलयोः ग्रहणाग्रहणे प्रति श्लेषमूलयोः
कुलीनत्वाकुलीनत्वयोः हेतुत्वसंभावनया हेतुत्प्रेक्षे श्लेषानुप्राणिते, मदनकृतस्य
रुक्मिणीनयनो- त्पलायुवीधीकरणेन कृष्णपराजयरूपविशेषस्य 'विना न मुख्यम्'
इत्यादि सामान्येन वैयधिकरण्येन समर्थनादर्थान्तरन्यासश्च ॥ ९ ॥
 

 
मनोऽभिधानो मधुविद्विषो झषो विलासहासामृतवीचिषु भ्रमन् ।

विदग्धलीलातिलकस्य नासिकाविभूषणं हा बडिशं व्यगाहत ॥
 
-
 

 
मन इति – मनश्चित्तमित्यभिधानं नाम यस्य तादृशो झषः । विदग्धा
चतुरा लीला शृङ्गारचेष्टा यासां तादृशीनां विलासिनीनां तिलकस्य ललामभूतायाः
रुक्मिण्याः । विलासाश्च हासाश्च त एवामृतवीचयः सुधोर्मयः तासु । भ्रमन् सञ्चरन्
सन्, तत्तल्लावण्यातिशयमसकृदनुभवन्नित्यर्थः । नासिकाविभूषणं तीक्ष्णाग्रकुञ्चि
काकारनासाभरणरूपम् । बडिशं मत्स्यवेधनानुकूलदीर्घ दण्डनिबद्धं शल्यविशेषम् ।
" बडिशं मत्स्यवेधनम् " इत्यमरः । व्यगाहत अवाप । बडिशकीलितस्ततोऽन्यत्र
गन्तुमसमर्थस्तत्रैव चिरमवातिष्ठतेति भावः । विपूर्वात् गाहतेः कर्तर्यात्मने पदे
लङ् । हा कष्टं, बडिशाग्रनिखाता- मिषजिघत्सया समापतितस्य मीनस्य बडिश-
कीलनमिव सुखातिशय लिप्सोः श्रीकृष्णमनसः नासाभूषणचिन्तनात् बलवती
व्यथाऽभवदिति महत्कष्टमिति भावः । अत्र मनःप्रभृतीनां झषत्वादिरूपणात्सावयव-
वयव
रूपकम् ; तच्च मनोऽभिधान इत्युक्त्या मन इत्यभिधानमात्रं, न पुनर्मन एव
किं तर्हि झष इति निषेधपर्यवसायिना[ न्या] अभिधानशद्वलब्धापह्- पहूनुतिगर्भेति
संकरः ॥