This page has been fully proofread once and needs a second look.

९६
 
रुक्मिणीकल्याणे सव्याख्याने
 
अम्बुदः वारिदः । वियोगो विरह एव वर्माधर्मोशुः सूर्यस्तेन विवर्धितः समुत्पादितः

ऊष्मा तापो यस्य तादृशस्य । तस्य महीभृतः राज्ञः कृष्णस्येत्यर्थः । पर्वतस्य च
मनस्तट: चित्तदेश एव मनस्तट: मनश्शिलायुक्तस्तट: सानुः तस्मिन् । भ्रमन् सतत -
परिवर्तमानस्सन् । बाष्पभरं नयनसलिलसन्तानमेव बाष्पभरं जलधूमसंहतिम् ।
" बाष्पोऽश्रूण्यम्बुधूमे च " इति वैजयन्ती । निर्भरं अति- मात्रम् । "अतिमात्रोद्गाढ -
निर्भरम्" इत्यमरः । व्यजृम्भयन्नु उदपादयत् किमु । रुक्मिणीकेशपाशसञ्चिन्तन-
समयसमनन्तरमेव कृष्णस्य बाष्पधारोद्गमेन केशपक्षे घनतुल्यतया केशरूपो नः
एव नयनसलिलाध्यवसितं बाष्पाख्यं जलधूममुदपादयत् किमिति संभाव्यत इति
भावः । अत्र विरहजनित- बाष्पोद्गमे वियोगरूपसूर्याभितप्तकृष्णमनःप्रदेशरूप -
पर्वतसानुसञ्चारि- रुक्मिणी केशपाशरूपवारिदकृत जलधूमोत्सर्जनक्रियातादात्म्यसं
भावना स्वरूपोत्प्रेक्षा । सा च महीभृत इति मनस्तट इति बाष्पभरमिति च
श्लेषमु मूलाभेदातिशयोक्त्या लब्धात्मा समस्तवस्तुविषयसावयवरूपकोत्थापितेति

संकरः ॥ ५ ॥
 

 
विवेकराकाविधुमाशयागते वधूमणीवेणिमुधाविधुन्तुदे ।

ग्रसत्यसौ सत्यममज्जदञ्जसा [^1]विभुर्मुहुर्मोहमहार्णवाम्भसि ॥ ६ ॥
 
-
 

 
विवेकेति – आशयं हृदयं आगते प्राप्ते मनसा परिचिन्तित इत्यर्थः ।

अन्यत्र. आशया अमृतमयस्य चन्द्रस्य ग्रसनेच्छया । यद्वा आशया दिशा आगते
गगनमार्गेणाभिमुखापतित इति भावः । वधूमण्याः रुक्मिण्या : वेणिमुधाविधुन्तुदे
वेणिकाकपटराहौ। विवेकं तत्तद्वस्तुखरूपपरिज्ञानमेव राकाविघुं पूर्णचन्द्रम् । ग्रसति
कबलयति सति, चन्द्रग्रहणाख्यपुण्यकाले घटिते सतीत्यर्थः । असौ विभुः एषः
कृष्णः । स्वयं विधिचोदितं कर्म निर्माय परानप्येवमनुष्ठापयितुं मानुषवेषानुगुण-
मनुतिष्ठन्निति भावः । अञ्जसा झटिति अनुपदमेवेत्यर्थः । मोहः मूर्छनं
सन्निकृष्टवस्तुपरिज्ञानाभाव एव महार्णव: दुस्तार : सागर : तस्यांभसि सलिले ।
मुहुः प्रतिपदं असकृदित्यर्थः । अमज्जत् मज्जति स्म । सत्यं ध्रुवम् । भगवतो
मोहसागरप्रतिपदमज्जनं विवेकचन्द्रमसो वेणीविधुन्तुदग्रसनात्मकसोमोपराग-

 
[^
1] G. मुहुर्विभुर्मोह-